हे भ्रातरः, यः सुसंवादो मया युष्मत्समीपे निवेदितो यूयञ्च यं गृहीतवन्त आश्रितवन्तश्च तं पुन र्युष्मान् विज्ञापयामि।
युष्माकं विश्वासो यदि वितथो न भवेत् तर्हि सुसंवादयुक्तानि मम वाक्यानि स्मरतां युष्माकं तेन सुसंवादेन परित्राणं जायते।
यतोऽहं यद् यत् ज्ञापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टोऽस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,
श्मशाने स्थापितश्च तृतीयदिने शास्त्रानुसारात् पुनरुत्थापितः।
स चाग्रे कैफै ततः परं द्वादशशिष्येभ्यो दर्शनं दत्तवान्।
ततः परं पञ्चशताधिकसंख्यकेभ्यो भ्रातृभ्यो युगपद् दर्शनं दत्तवान् तेषां केचित् महानिद्रां गता बहुतराश्चाद्यापि वर्त्तन्ते।
तदनन्तरं याकूबाय तत्पश्चात् सर्व्वेभ्यः प्रेरितेभ्यो दर्शनं दत्तवान्।
सर्व्वशेषेऽकालजाततुल्यो योऽहं, सोऽहमपि तस्य दर्शनं प्राप्तवान्।
ईश्वरस्य समितिं प्रति दौरात्म्याचरणाद् अहं प्रेरितनाम धर्त्तुम् अयोग्यस्तस्मात् प्रेरितानां मध्ये क्षुद्रतमश्चास्मि।
यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।
अतएव मया भवेत् तै र्वा भवेत् अस्माभिस्तादृशी वार्त्ता घोष्यते सैव च युष्माभि र्विश्वासेन गृहीता।
मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते?
ⅩⅢमृतानाम् उत्थिति र्यदि न भवेत् तर्हि ख्रीष्टोऽपि नोत्थापितः
ⅩⅣख्रीष्टश्च यद्यनुत्थापितः स्यात् तर्ह्यस्माकं घोषणं वितथं युष्माकं विश्वासोऽपि वितथः।
ⅩⅤवयञ्चेश्वरस्य मृषासाक्षिणो भवामः, यतः ख्रीष्ट स्तेनोत्थापितः इति साक्ष्यम् अस्माभिरीश्वरमधि दत्तं किन्तु मृतानामुत्थिति र्यदि न भवेत् तर्हि स तेन नोत्थापितः।
ⅩⅥयतो मृतानामुत्थिति र्यति न भवेत् तर्हि ख्रीष्टोऽप्युत्थापितत्वं न गतः।
ⅩⅦख्रीष्टस्य यद्यनुत्थापितः स्यात् तर्हि युष्माकं विश्वासो वितथः, यूयम् अद्यापि स्वपापेषु मग्नास्तिष्ठथ।
ⅩⅧअपरं ख्रीष्टाश्रिता ये मानवा महानिद्रां गतास्तेऽपि नाशं गताः।
ⅩⅨख्रीष्टो यदि केवलमिहलोके ऽस्माकं प्रत्याशाभूमिः स्यात् तर्हि सर्व्वमर्त्येभ्यो वयमेव दुर्भाग्याः।
ⅩⅩइदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।
ⅩⅪयतो यद्वत् मानुषद्वारा मृत्युः प्रादुर्भूतस्तद्वत् मानुषद्वारा मृतानां पुनरुत्थितिरपि प्रदुर्भूता।
ⅩⅫआदमा यथा सर्व्वे मरणाधीना जातास्तथा ख्रीष्टेन सर्व्वे जीवयिष्यन्ते।
ⅩⅩⅢकिन्त्वेकैकेन जनेन निजे निजे पर्य्याय उत्थातव्यं प्रथमतः प्रथमजातफलस्वरूपेन ख्रीष्टेन, द्वितीयतस्तस्यागमनसमये ख्रीष्टस्य लोकैः।
ⅩⅩⅣततः परम् अन्तो भविष्यति तदानीं स सर्व्वं शासनम् अधिपतित्वं पराक्रमञ्च लुप्त्वा स्वपितरीश्वरे राजत्वं समर्पयिष्यति।
ⅩⅩⅤयतः ख्रीष्टस्य रिपवः सर्व्वे यावत् तेन स्वपादयोरधो न निपातयिष्यन्ते तावत् तेनैव राजत्वं कर्त्तव्यं।
ⅩⅩⅥतेन विजेतव्यो यः शेषरिपुः स मृत्युरेव।
ⅩⅩⅦलिखितमास्ते सर्व्वाणि तस्य पादयो र्वशीकृतानि। किन्तु सर्व्वाण्येव तस्य वशीकृतानीत्युक्ते सति सर्व्वाणि येन तस्य वशीकृतानि स स्वयं तस्य वशीभूतो न जात इति व्यक्तं।
ⅩⅩⅧसर्व्वेषु तस्य वशीभूतेषु सर्व्वाणि येन पुत्रस्य वशीकृतानि स्वयं पुत्रोऽपि तस्य वशीभूतो भविष्यति तत ईश्वरः सर्व्वेषु सर्व्व एव भविष्यति।
ⅩⅩⅨअपरं परेतलोकानां विनिमयेन ये मज्ज्यन्ते तैः किं लप्स्यते? येषां परेतलोकानाम् उत्थितिः केनापि प्रकारेण न भविष्यति तेषां विनिमयेन कुतो मज्जनमपि तैरङ्गीक्रियते?
ⅩⅩⅩवयमपि कुतः प्रतिदण्डं प्राणभीतिम् अङ्गीकुर्म्महे?
ⅩⅩⅪअस्मत्प्रभुना यीशुख्रीष्टेन युष्मत्तो मम या श्लाघास्ते तस्याः शपथं कृत्वा कथयामि दिने दिनेऽहं मृत्युं गच्छामि।
ⅩⅩⅫइफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति।
ⅩⅩⅩⅢइत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।
ⅩⅩⅩⅣयूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज्ञानहीनाः केऽपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।
ⅩⅩⅩⅤअपरं मृतलोकाः कथम् उत्थास्यन्ति? कीदृशं वा शरीरं लब्ध्वा पुनरेष्यन्तीति वाक्यं कश्चित् प्रक्ष्यति।
ⅩⅩⅩⅥहे अज्ञ त्वया यद् बीजम् उप्यते तद् यदि न म्रियेत तर्हि न जीवयिष्यते।
ⅩⅩⅩⅦयया मूर्त्त्या निर्गन्तव्यं सा त्वया नोप्यते किन्तु शुष्कं बीजमेव; तच्च गोधूमादीनां किमपि बीजं भवितुं शक्नोति।
ⅩⅩⅩⅧईश्वरेणेव यथाभिलाषं तस्मै मूर्त्ति र्दीयते, एकैकस्मै बीजाय स्वा स्वा मूर्त्तिरेव दीयते।
ⅩⅩⅩⅨसर्व्वाणि पललानि नैकविधानि सन्ति, मनुष्यपशुपक्षिमत्स्यादीनां भिन्नरूपाणि पललानि सन्ति।
ⅩⅬअपरं स्वर्गीया मूर्त्तयः पार्थिवा मूर्त्तयश्च विद्यन्ते किन्तु स्वर्गीयानाम् एकरूपं तेजः पार्थिवानाञ्च तदन्यरूपं तेजोऽस्ति।
ⅩⅬⅠसूर्य्यस्य तेज एकविधं चन्द्रस्य तेजस्तदन्यविधं ताराणाञ्च तेजोऽन्यविधं, ताराणां मध्येऽपि तेजसस्तारतम्यं विद्यते।
ⅩⅬⅡतत्र लिखितमास्ते यथा, ‘आदिपुरुष आदम् जीवत्प्राणी बभूव,’ किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।
ⅩⅬⅢयद् उप्यते तत् तुच्छं यच्चोत्थास्यति तद् गौरवान्वितं; यद् उप्यते तन्निर्ब्बलं यच्चोत्थास्यति तत् शक्तियुक्तं।
ⅩⅬⅣयत् शरीरम् उप्यते तत् प्राणानां सद्म, यच्च शरीरम् उत्थास्यति तद् आत्मनः सद्म। प्राणसद्मस्वरूपं शरीरं विद्यते, आत्मसद्मस्वरूपमपि शरीरं विद्यते।
ⅩⅬⅤतत्र लिखितमास्ते यथा, आदिपुरुष आदम् जीवत्प्राणी बभूव, किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।
ⅩⅬⅥआत्मसद्म न प्रथमं किन्तु प्राणसद्मैव तत्पश्चाद् आत्मसद्म।
ⅩⅬⅦआद्यः पुरुषे मृद उत्पन्नत्वात् मृण्मयो द्वितीयश्च पुरुषः स्वर्गाद् आगतः प्रभुः।
ⅩⅬⅧमृण्मयो यादृश आसीत् मृण्मयाः सर्व्वे तादृशा भवन्ति स्वर्गीयश्च यादृशोऽस्ति स्वर्गीयाः सर्व्वे तादृशा भवन्ति।
ⅩⅬⅨमृण्मयस्य रूपं यद्वद् अस्माभि र्धारितं तद्वत् स्वर्गीयस्य रूपमपि धारयिष्यते।
हे भ्रातरः, युष्मान् प्रति व्याहरामि, ईश्वरस्य राज्ये रक्तमांसयोरधिकारो भवितुं न शक्नोति, अक्षयत्वे च क्षयस्याधिकारो न भविष्यति।
ⅬⅠपश्यताहं युष्मभ्यं निगूढां कथां निवेदयामि।
ⅬⅡसर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वयञ्च रूपान्तरं गमिष्यामः।
ⅬⅢयतः क्षयणीयेनैतेन शरीरेणाक्षयत्वं परिहितव्यं, मरणाधीनेनैतेन देहेन चामरत्वं परिहितव्यं।
ⅬⅣएतस्मिन् क्षयणीये शरीरे ऽक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।
ⅬⅤमृत्यो ते कण्टकं कुत्र परलोक जयः क्क ते॥
ⅬⅥमृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था।
ⅬⅦईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।
ⅬⅧअतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।