सर्व्वान् द्वेषान् सर्व्वांश्च छलान् कापट्यानीर्ष्याः समस्तग्लानिकथाश्च दूरीकृत्य
युष्माभिः परित्राणाय वृद्धिप्राप्त्यर्थं नवजातशिशुभिरिव प्रकृतं वाग्दुग्धं पिपास्यतां।
यतः प्रभु र्मधुर एतस्यास्वादं यूयं प्राप्तवन्तः।
अपरं मानुषैरवज्ञातस्य किन्त्वीश्वरेणाभिरुचितस्य बहुमूल्यस्य जीवत्प्रस्तरस्येव तस्य प्रभोः सन्निधिम् आगता
यूयमपि जीवत्प्रस्तरा इव निचीयमाना आत्मिकमन्दिरं ख्रीष्टेन यीशुना चेश्वरतोषकाणाम् आत्मिकबलीनां दानार्थं पवित्रो याजकवर्गो भवथ।
यतः शास्त्रे लिखितमास्ते, यथा, पश्य पाषाण एको ऽस्ति सीयोनि स्थापितो मया। मुख्यकोणस्य योग्यः स वृतश्चातीव मूल्यवान्। यो जनो विश्वसेत् तस्मिन् स लज्जां न गमिष्यति।
विश्वासिनां युष्माकमेव समीपे स मूल्यवान् भवति किन्त्वविश्वासिनां कृते निचेतृभिरवज्ञातः स पाषाणः कोणस्य भित्तिमूलं भूत्वा बाधाजनकः पाषाणः स्खलनकारकश्च शैलो जातः।
ते चाविश्वासाद् वाक्येन स्खलन्ति स्खलने च नियुक्ताः सन्ति।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
पूर्व्वं यूयं तस्य प्रजा नाभवत किन्त्विदानीम् ईश्वरस्य प्रजा आध्वे। पूर्व्वम् अननुकम्पिता अभवत किन्त्विदानीम् अनुकम्पिता आध्वे।
हे प्रियतमाः, यूयं प्रवासिनो विदेशिनश्च लोका इव मनसः प्रातिकूल्येन योधिभ्यः शारीरिकसुखाभिलाषेभ्यो निवर्त्तध्वम् इत्यहं विनये।
देवपूजकानां मध्ये युष्माकम् आचार एवम् उत्तमो भवतु यथा ते युष्मान् दुष्कर्म्मकारिलोकानिव पुन र्न निन्दन्तः कृपादृष्टिदिने स्वचक्षुर्गोचरीयसत्क्रियाभ्य ईश्वरस्य प्रशंसां कुर्य्युः।
ⅩⅢततो हेतो र्यूयं प्रभोरनुरोधात् मानवसृष्टानां कर्तृत्वपदानां वशीभवत विशेषतो भूपालस्य यतः स श्रेष्ठः,
ⅩⅣदेशाध्यक्षाणाञ्च यतस्ते दुष्कर्म्मकारिणां दण्डदानार्थं सत्कर्म्मकारिणां प्रशंसार्थञ्च तेन प्रेरिताः।
ⅩⅤइत्थं निर्ब्बोधमानुषाणाम् अज्ञानत्वं यत् सदाचारिभि र्युष्माभि र्निरुत्तरीक्रियते तद् ईश्वरस्याभिमतं।
ⅩⅥयूयं स्वाधीना इवाचरत तथापि दुष्टताया वेषस्वरूपां स्वाधीनतां धारयन्त इव नहि किन्त्वीश्वरस्य दासा इव।
ⅩⅦसर्व्वान् समाद्रियध्वं भ्रातृवर्गे प्रीयध्वम् ईश्वराद् बिभीत भूपालं सम्मन्यध्वं।
ⅩⅧहे दासाः यूयं सम्पूर्णादरेण प्रभूनां वश्या भवत केवलं भद्राणां दयालूनाञ्च नहि किन्त्वनृजूनामपि।
ⅩⅨयतो ऽन्यायेन दुःखभोगकाल ईश्वरचिन्तया यत् क्लेशसहनं तदेव प्रियं।
ⅩⅩपापं कृत्वा युष्माकं चपेटाघातसहनेन का प्रशंसा? किन्तु सदाचारं कृत्वा युष्माकं यद् दुःखसहनं तदेवेश्वरस्य प्रियं।
ⅩⅪतदर्थमेव यूयम् आहूता यतः ख्रीष्टोऽपि युष्मन्निमित्तं दुःखं भुक्त्वा यूयं यत् तस्य पदचिह्नै र्व्रजेत तदर्थं दृष्टान्तमेकं दर्शितवान्।
ⅩⅫस किमपि पापं न कृतवान् तस्य वदने कापि छलस्य कथा नासीत्।
ⅩⅩⅢनिन्दितो ऽपि सन् स प्रतिनिन्दां न कृतवान् दुःखं सहमानो ऽपि न भर्त्सितवान् किन्तु यथार्थविचारयितुः समीपे स्वं समर्पितवान्।
ⅩⅩⅣवयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।
ⅩⅩⅤयतः पूर्व्वं यूयं भ्रमणकारिमेषा इवाध्वं किन्त्वधुना युष्माकम् आत्मनां पालकस्याध्यक्षस्य च समीपं प्रत्यावर्त्तिताः।