Ⅰततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।
Ⅱकिन्तु तस्मिन् समये यिहूदीयानां दूष्यवासनामोत्सव उपस्थिते
Ⅲतस्य भ्रातरस्तम् अवदन् यानि कर्म्माणि त्वया क्रियन्ते तानि यथा तव शिष्याः पश्यन्ति तदर्थं त्वमितः स्थानाद् यिहूदीयदेशं व्रज।
Ⅳयः कश्चित् स्वयं प्रचिकाशिषति स कदापि गुप्तं कर्म्म न करोति यदीदृशं कर्म्म करोषि तर्हि जगति निजं परिचायय।
Ⅴयतस्तस्य भ्रातरोपि तं न विश्वसन्ति।
Ⅵतदा यीशुस्तान् अवोचत् मम समय इदानीं नोपतिष्ठति किन्तु युष्माकं समयः सततम् उपतिष्ठति।
Ⅶजगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि।
Ⅷअतएव यूयम् उत्सवेऽस्मिन् यात नाहम् इदानीम् अस्मिन्नुत्सवे यामि यतो मम समय इदानीं न सम्पूर्णः।
Ⅸइति वाक्यम् उक्त्त्वा स गालीलि स्थितवान्
Ⅹकिन्तु तस्य भ्रातृषु तत्र प्रस्थितेषु सत्सु सोऽप्रकट उत्सवम् अगच्छत्।
Ⅺअनन्तरम् उत्सवम् उपस्थिता यिहूदीयास्तं मृगयित्वापृच्छन् स कुत्र?
Ⅻततो लोकानां मध्ये तस्मिन् नानाविधा विवादा भवितुम् आरब्धवन्तः। केचिद् अवोचन् स उत्तमः पुरुषः केचिद् अवोचन् न तथा वरं लोकानां भ्रमं जनयति।
ⅩⅢकिन्तु यिहूदीयानां भयात् कोपि तस्य पक्षे स्पष्टं नाकथयत्।
ⅩⅣततः परम् उत्सवस्य मध्यसमये यीशु र्मन्दिरं गत्वा समुपदिशति स्म।
ⅩⅤततो यिहूदीया लोका आश्चर्य्यं ज्ञात्वाकथयन् एषा मानुषो नाधीत्या कथम् एतादृशो विद्वानभूत्?
ⅩⅥतदा यीशुः प्रत्यवोचद् उपदेशोयं न मम किन्तु यो मां प्रेषितवान् तस्य।
ⅩⅦयो जनो निदेशं तस्य ग्रहीष्यति ममोपदेशो मत्तो भवति किम् ईश्वराद् भवति स गनस्तज्ज्ञातुं शक्ष्यति।
ⅩⅧयो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।
ⅩⅨमूसा युष्मभ्यं व्यवस्थाग्रन्थं किं नाददात्? किन्तु युष्माकं कोपि तां व्यवस्थां न समाचरति। मां हन्तुं कुतो यतध्वे?
ⅩⅩतदा लोका अवदन् त्वं भूतग्रस्तस्त्वां हन्तुं को यतते?
ⅩⅪततो यीशुरवोचद् एकं कर्म्म मयाकारि तस्माद् यूयं सर्व्व महाश्चर्य्यं मन्यध्वे।
ⅩⅫमूसा युष्मभ्यं त्वक्छेदविधिं प्रददौ स मूसातो न जातः किन्तु पितृपुरुषेभ्यो जातः तेन विश्रामवारेऽपि मानुषाणां त्वक्छेदं कुरुथ।
ⅩⅩⅢअतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ?
ⅩⅩⅣसपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।
ⅩⅩⅤतदा यिरूशालम् निवासिनः कतिपयजना अकथयन् इमे यं हन्तुं चेष्टन्ते स एवायं किं न?
ⅩⅩⅥकिन्तु पश्यत निर्भयः सन् कथां कथयति तथापि किमपि अ वदन्त्येते अयमेवाभिषिक्त्तो भवतीति निश्चितं किमधिपतयो जानन्ति?
ⅩⅩⅦमनुजोयं कस्मादागमद् इति वयं जानोमः किन्त्वभिषिक्त्त आगते स कस्मादागतवान् इति कोपि ज्ञातुं न शक्ष्यति।
ⅩⅩⅧतदा यीशु र्मध्येमन्दिरम् उपदिशन् उच्चैःकारम् उक्त्तवान् यूयं किं मां जानीथ? कस्माच्चागतोस्मि तदपि किं जानीथ? नाहं स्वत आगतोस्मि किन्तु यः सत्यवादी सएव मां प्रेषितवान् यूयं तं न जानीथ।
ⅩⅩⅨतमहं जाने तेनाहं प्रेरित अगतोस्मि।
ⅩⅩⅩतस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति।
ⅩⅩⅪकिन्तु बहवो लोकास्तस्मिन् विश्वस्य कथितवान्तोऽभिषिक्त्तपुरुष आगत्य मानुषस्यास्य क्रियाभ्यः किम् अधिका आश्चर्य्याः क्रियाः करिष्यति?
ⅩⅩⅫततः परं लोकास्तस्मिन् इत्थं विवदन्ते फिरूशिनः प्रधानयाजकाञ्चेति श्रुतवन्तस्तं धृत्वा नेतुं पदातिगणं प्रेषयामासुः।
ⅩⅩⅩⅢततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि।
ⅩⅩⅩⅣमां मृगयिष्यध्वे किन्तूद्देशं न लप्स्यध्वे रत्र स्थास्यामि तत्र यूयं गन्तुं न शक्ष्यथ।
ⅩⅩⅩⅤतदा यिहूदीयाः परस्परं वक्त्तुमारेभिरे अस्योद्देशं न प्राप्स्याम एतादृशं किं स्थानं यास्यति? भिन्नदेशे विकीर्णानां यिहूदीयानां सन्निधिम् एष गत्वा तान् उपदेक्ष्यति किं?
ⅩⅩⅩⅥनो चेत् मां गवेषयिष्यथ किन्तूद्देशं न प्राप्स्यथ एष कोदृशं वाक्यमिदं वदति?
ⅩⅩⅩⅦअनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।
ⅩⅩⅩⅧयः कश्चिन्मयि विश्वसिति धर्म्मग्रन्थस्य वचनानुसारेण तस्याभ्यन्तरतोऽमृततोयस्य स्रोतांसि निर्गमिष्यन्ति।
ⅩⅩⅩⅨये तस्मिन् विश्वसन्ति त आत्मानं प्राप्स्यन्तीत्यर्थे स इदं वाक्यं व्याहृतवान् एतत्कालं यावद् यीशु र्विभवं न प्राप्तस्तस्मात् पवित्र आत्मा नादीयत।
ⅩⅬएतां वाणीं श्रुत्वा बहवो लोका अवदन् अयमेव निश्चितं स भविष्यद्वादी।
ⅩⅬⅠकेचिद् अकथयन् एषएव सोभिषिक्त्तः किन्तु केचिद् अवदन् सोभिषिक्त्तः किं गालील् प्रदेशे जनिष्यते?
ⅩⅬⅡसोभिषिक्त्तो दायूदो वंशे दायूदो जन्मस्थाने बैत्लेहमि पत्तने जनिष्यते धर्म्मग्रन्थे किमित्थं लिखितं नास्ति?
ⅩⅬⅢइत्थं तस्मिन् लोकानां भिन्नवाक्यता जाता।
ⅩⅬⅣकतिपयलोकास्तं धर्त्तुम् ऐच्छन् तथापि तद्वपुषि कोपि हस्तं नार्पयत्।
ⅩⅬⅤअनन्तरं पादातिगणे प्रधानयाजकानां फिरूशिनाञ्च समीपमागतवति ते तान् अपृच्छन् कुतो हेतोस्तं नानयत?
ⅩⅬⅥतदा पदातयः प्रत्यवदन् स मानव इव कोपि कदापि नोपादिशत्।
ⅩⅬⅦततः फिरूशिनः प्रावोचन् यूयमपि किमभ्रामिष्ट?
ⅩⅬⅧअधिपतीनां फिरूशिनाञ्च कोपि किं तस्मिन् व्यश्वसीत्?
ⅩⅬⅨये शास्त्रं न जानन्ति त इमेऽधमलोकाएव शापग्रस्ताः।
Ⅼतदा निकदीमनामा तेषामेको यः क्षणदायां यीशोः सन्निधिम् अगात् स उक्त्तवान्
ⅬⅠतस्य वाक्ये न श्रुते कर्म्मणि च न विदिते ऽस्माकं व्यवस्था किं कञ्चन मनुजं दोषीकरोति?
ⅬⅡततस्ते व्याहरन् त्वमपि किं गालीलीयलोकः? विविच्य पश्य गलीलि कोपि भविष्यद्वादी नोत्पद्यते।
ⅬⅢततः परं सर्व्वे स्वं स्वं गृहं गताः किन्तु यीशु र्जैतुननामानं शिलोच्चयं गतवान्।