Ⅰयुष्माकं यथा वाधा न जायते तदर्थं युष्मान् एतानि सर्व्ववाक्यानि व्याहरं।
Ⅱलोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति।
Ⅲते पितरं माञ्च न जानन्ति, तस्माद् युष्मान् प्रतीदृशम् आचरिष्यन्ति।
Ⅳअतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।
Ⅴसाम्प्रतं स्वस्य प्रेरयितुः समीपं गच्छामि तथापि त्वं क्क गच्छसि कथामेतां युष्माकं कोपि मां न पृच्छति।
Ⅵकिन्तु मयोक्ताभिराभिः कथाभि र्यूष्माकम् अन्तःकरणानि दुःखेन पूर्णान्यभवन्।
Ⅶतथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।
Ⅷततः स आगत्य पापपुण्यदण्डेषु जगतो लोकानां प्रबोधं जनयिष्यति।
Ⅸते मयि न विश्वसन्ति तस्माद्धेतोः पापप्रबोधं जनयिष्यति।
Ⅹयुष्माकम् अदृश्यः सन्नहं पितुः समीपं गच्छामि तस्माद् पुण्ये प्रबोधं जनयिष्यति।
Ⅺएतज्जगतोऽधिपति र्दण्डाज्ञां प्राप्नोति तस्माद् दण्डे प्रबोधं जनयिष्यति।
Ⅻयुष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ;
ⅩⅢकिन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।
ⅩⅣमम महिमानं प्रकाशयिष्यति यतो मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।
ⅩⅤपितु र्यद्यद् आस्ते तत् सर्व्वं मम तस्माद् कारणाद् अवादिषं स मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।
ⅩⅥकियत्कालात् परं यूयं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि।
ⅩⅦततः शिष्याणां कियन्तो जनाः परस्परं वदितुम् आरभन्त, कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि, इति यद् वाक्यम् अयं वदति तत् किं?
ⅩⅧततः कियत्कालात् परम् इति तस्य वाक्यं किं? तस्य वाक्यस्याभिप्रायं वयं बोद्धुं न शक्नुमस्तैरिति
ⅩⅨनिगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे?
ⅩⅩयुष्मानहम् अतियथार्थं वदामि यूयं क्रन्दिष्यथ विलपिष्यथ च, किन्तु जगतो लोका आनन्दिष्यन्ति; यूयं शोकाकुला भविष्यथ किन्तु शोकात् परं आनन्दयुक्ता भविष्यथ।
ⅩⅪप्रसवकाल उपस्थिते नारी यथा प्रसववेदनया व्याकुला भवति किन्तु पुत्रे भूमिष्ठे सति मनुष्यैको जन्मना नरलोके प्रविष्ट इत्यानन्दात् तस्यास्तत्सर्व्वं दुःखं मनसि न तिष्ठति,
ⅩⅫतथा यूयमपि साम्प्रतं शोकाकुला भवथ किन्तु पुनरपि युष्मभ्यं दर्शनं दास्यामि तेन युष्माकम् अन्तःकरणानि सानन्दानि भविष्यन्ति, युष्माकं तम् आनन्दञ्च कोपि हर्त्तुं न शक्ष्यति।
ⅩⅩⅢतस्मिन् दिवसे कामपि कथां मां न प्रक्ष्यथ। युष्मानहम् अतियथार्थं वदामि, मम नाम्ना यत् किञ्चिद् पितरं याचिष्यध्वे तदेव स दास्यति।
ⅩⅩⅣपूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।
ⅩⅩⅤउपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।
ⅩⅩⅥतदा मम नाम्ना प्रार्थयिष्यध्वे ऽहं युष्मन्निमित्तं पितरं विनेष्ये कथामिमां न वदामि;
ⅩⅩⅦयतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते।
ⅩⅩⅧपितुः समीपाज्जजद् आगतोस्मि जगत् परित्यज्य च पुनरपि पितुः समीपं गच्छामि।
ⅩⅩⅨतदा शिष्या अवदन्, हे प्रभो भवान् उपमया नोक्त्वाधुना स्पष्टं वदति।
ⅩⅩⅩभवान् सर्व्वज्ञः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज्ञानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः।
ⅩⅩⅪततो यीशुः प्रत्यवादीद् इदानीं किं यूयं विश्वसिथ?
ⅩⅩⅫपश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।
ⅩⅩⅩⅢयथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।