त्वं प्राचीनं न भर्त्सय किन्तु तं पितरमिव यूनश्च भ्रातृनिव
वृद्धाः स्त्रियश्च मातृनिव युवतीश्च पूर्णशुचित्वेन भगिनीरिव विनयस्व।
अपरं सत्यविधवाः सम्मन्यस्व।
कस्याश्चिद् विधवाया यदि पुत्राः पौत्रा वा विद्यन्ते तर्हि ते प्रथमतः स्वीयपरिजनान् सेवितुं पित्रोः प्रत्युपकर्त्तुञ्च शिक्षन्तां यतस्तदेवेश्वरस्य साक्षाद् उत्तमं ग्राह्यञ्च कर्म्म।
अपरं या नारी सत्यविधवा नाथहीना चास्ति सा ईश्वरस्याश्रये तिष्ठन्ती दिवानिशं निवेदनप्रार्थनाभ्यां कालं यापयति।
किन्तु या विधवा सुखभोगासक्ता सा जीवत्यपि मृता भवति।
अतएव ता यद् अनिन्दिता भवेयूस्तदर्थम् एतानि त्वया निदिश्यन्तां।
यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।
विधवावर्गे यस्या गणना भवति तया षष्टिवत्सरेभ्यो न्यूनवयस्कया न भवितव्यं; अपरं पूर्व्वम् एकस्वामिका भूत्वा
सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।
किन्तु युवती र्विधवा न गृहाण यतः ख्रीष्टस्य वैपरीत्येन तासां दर्पे जाते ता विवाहम् इच्छन्ति।
तस्माच्च पूर्व्वधर्म्मं परित्यज्य दण्डनीया भवन्ति।
ⅩⅢअनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।
ⅩⅣअतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।
ⅩⅤयत इतः पूर्व्वम् अपि काश्चित् शयतानस्य पश्चाद्गामिन्यो जाताः।
ⅩⅥअपरं विश्वासिन्या विश्वासिनो वा कस्यापि परिवाराणां मध्ये यदि विधवा विद्यन्ते तर्हि स ताः प्रतिपालयतु तस्मात् समितौ भारे ऽनारोपिते सत्यविधवानां प्रतिपालनं कर्त्तुं तया शक्यते।
ⅩⅦये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।
ⅩⅧयस्मात् शास्त्रे लिखितमिदमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं मा बधानेति, अपरमपि कार्य्यकृद् वेतनस्य योग्यो भवतीति।
ⅩⅨद्वौ त्रीन् वा साक्षिणो विना कस्याचित् प्राचीनस्य विरुद्धम् अभियोगस्त्वया न गृह्यतां।
ⅩⅩअपरं ये पापमाचरन्ति तान् सर्व्वेषां समक्षं भर्त्सयस्व तेनापरेषामपि भीति र्जनिष्यते।
ⅩⅪअहम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य मनोनीतदिव्यदूतानाञ्च गोचरे त्वाम् इदम् आज्ञापयामि त्वं कस्याप्यनुरोधेन किमपि न कुर्व्वन विनापक्षपातम् एतान विधीन् पालय।
ⅩⅫकस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष।
ⅩⅩⅢअपरं तवोदरपीडायाः पुनः पुन दुर्ब्बलतायाश्च निमित्तं केवलं तोयं न पिवन् किञ्चिन् मद्यं पिव।
ⅩⅩⅣकेषाञ्चित् मानवानां पापानि विचारात् पूर्व्वं केषाञ्चित् पश्चात् प्रकाशन्ते।
ⅩⅩⅤतथैव सत्कर्म्माण्यपि प्रकाशन्ते तदन्यथा सति प्रच्छन्नानि स्थातुं न शक्नुवन्ति।