कैसरियानगर इतालियाख्यसैन्यान्तर्गतः कर्णीलियनामा सेनापतिरासीत्
स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थयाञ्चक्रे।
एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।
किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।
इदानीं याफोनगरं प्रति लोकान् प्रेष्य समुद्रतीरे शिमोन्नाम्नश्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तम् आह्वायय;
तस्मात् त्वया यद्यत् कर्त्तव्यं तत्तत् स वदिष्यति।
इत्युपदिश्य दूते प्रस्थिते सति कर्णीलियः स्वगृहस्थानां दासानां द्वौ जनौ नित्यं स्वसङ्गिनां सैन्यानाम् एकां भक्तसेनाञ्चाहूय
सकलमेतं वृत्तान्तं विज्ञाप्य याफोनगरं तान् प्राहिणोत्।
परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्।
एतस्मिन् समये क्षुधार्त्तः सन् किञ्चिद् भोक्तुम् ऐच्छत् किन्तु तेषाम् अन्नासादनसमये स मूर्च्छितः सन्नपतत्।
ततो मेघद्वारं मुक्तं चतुर्भिः कोणै र्लम्बितं बृहद्वस्त्रमिव किञ्चन भाजनम् आकाशात् पृथिवीम् अवारोहतीति दृष्टवान्।
तन्मध्ये नानप्रकारा ग्राम्यवन्यपशवः खेचरोरोगामिप्रभृतयो जन्तवश्चासन्।
ⅩⅢअनन्तरं हे पितर उत्थाय हत्वा भुंक्ष्व तम्प्रतीयं गगणीया वाणी जाता।
ⅩⅣतदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्।
ⅩⅤततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।
ⅩⅥइत्थं त्रिः सति तत् पात्रं पुनराकृष्टं आकाशम् अगच्छत्।
ⅩⅦततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,
ⅩⅧशिमोनो गृहमन्विच्छन्तः सम्पृछ्याहूय कथितवन्तः पितरनाम्ना विख्यातो यः शिमोन् स किमत्र प्रवसति?
ⅩⅨयदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते।
ⅩⅩत्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः।
ⅩⅪतस्मात् पितरोऽवरुह्य कर्णीलियप्रेरितलोकानां निकटमागत्य कथितवान् पश्यत यूयं यं मृगयध्वे स जनोहं, यूयं किन्निमित्तम् आगताः?
ⅩⅫततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतुञ्च पवित्रदूतेन समादिष्टः।
ⅩⅩⅢतदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परेऽहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।
ⅩⅩⅣपरस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो ज्ञातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।
ⅩⅩⅤपितरे गृह उपस्थिते कर्णीलियस्तं साक्षात्कृत्य चरणयोः पतित्वा प्राणमत्।
ⅩⅩⅥपितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः।
ⅩⅩⅦतदा कर्णीलियेन साकम् आलपन् गृहं प्राविशत् तन्मध्ये च बहुलोकानां समागमं दृष्ट्वा तान् अवदत्,
ⅩⅩⅧअन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा ज्ञातुं मम नोचितम् इति परमेश्वरो मां ज्ञापितवान्।
ⅩⅩⅨइति हेतोराह्वानश्रवणमात्रात् काञ्चनापत्तिम् अकृत्वा युष्माकं समीपम् आगतोस्मि; पृच्छामि यूयं किन्निमित्तं माम् आहूयत?
ⅩⅩⅩतदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्,
ⅩⅩⅪहे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्।
ⅩⅩⅫअतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति।
ⅩⅩⅩⅢइति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।
ⅩⅩⅩⅣतदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती सन्
ⅩⅩⅩⅤयस्य कस्यचिद् देशस्य यो लोकास्तस्माद्भीत्वा सत्कर्म्म करोति स तस्य ग्राह्यो भवति, एतस्य निश्चयम् उपलब्धवानहम्।
ⅩⅩⅩⅥसर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः।
ⅩⅩⅩⅦयतो योहना मज्जने प्रचारिते सति स गालीलदेशमारभ्य समस्तयिहूदीयदेशं व्याप्नोत्;
ⅩⅩⅩⅧफलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;
ⅩⅩⅩⅨवयञ्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः,
ⅩⅬकिन्तु तृतीयदिवसे ईश्वरस्तमुत्थाप्य सप्रकाशम् अदर्शयत्।
ⅩⅬⅠसर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पानञ्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।
ⅩⅬⅡजीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातुञ्च सोऽस्मान् आज्ञापयत्।
ⅩⅬⅢयस्तस्मिन् विश्वसिति स तस्य नाम्ना पापान्मुक्तो भविष्यति तस्मिन् सर्व्वे भविष्यद्वादिनोपि एतादृशं साक्ष्यं ददति।
ⅩⅬⅣपितरस्यैतत्कथाकथनकाले सर्व्वेषां श्रोतृणामुपरि पवित्र आत्मावारोहत्।
ⅩⅬⅤततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति
ⅩⅬⅥते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त।
ⅩⅬⅦतदा पितरः कथितवान्, वयमिव ये पवित्रम् आत्मानं प्राप्तास्तेषां जलमज्जनं किं कोपि निषेद्धुं शक्नोति?
ⅩⅬⅧततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।