इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः।
ततः पितरे यिरूशालम्नगरं गतवति त्वक्छेदिनो लोकास्तेन सह विवदमाना अवदन्,
त्वम् अत्वक्छेदिलोकानां गृहं गत्वा तैः सार्द्धं भुक्तवान्।
ततः पितर आदितः क्रमशस्तत्कार्य्यस्य सर्व्ववृत्तान्तमाख्यातुम् आरब्धवान्।
याफोनगर एकदाहं प्रार्थयमानो मूर्च्छितः सन् दर्शनेन चतुर्षु कोणेषु लम्बनमानं वृहद्वस्त्रमिव पात्रमेकम् आकाशदवरुह्य मन्निकटम् आगच्छद् अपश्यम्।
पश्चात् तद् अनन्यदृष्ट्या दृष्ट्वा विविच्य तस्य मध्ये नानाप्रकारान् ग्राम्यवन्यपशून् उरोगामिखेचरांश्च दृष्टवान्;
हे पितर त्वमुत्थाय गत्वा भुंक्ष्व मां सम्बोध्य कथयन्तं शब्दमेकं श्रुतवांश्च।
ततोहं प्रत्यवदं, हे प्रभो नेत्थं भवतु, यतः किञ्चन निषिद्धम् अशुचि द्रव्यं वा मम मुखमध्यं कदापि न प्राविशत्।
अपरम् ईश्वरो यत् शुचि कृतवान् तन्निषिद्धं न जानीहि द्वि र्माम्प्रतीदृशी विहायसीया वाणी जाता।
त्रिरित्थं सति तत् सर्व्वं पुनराकाशम् आकृष्टं।
पश्चात् कैसरियानगरात् त्रयो जना मन्निकटं प्रेषिता यत्र निवेशने स्थितोहं तस्मिन् समये तत्रोपातिष्ठन्।
तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।
ⅩⅢसोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज्ञापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय;
ⅩⅣततस्तव त्वदीयपरिवाराणाञ्च येन परित्राणं भविष्यति तत् स उपदेक्ष्यति।
ⅩⅤअहं तां कथामुत्थाप्य कथितवान् तेन प्रथमम् अस्माकम् उपरि यथा पवित्र आत्मावरूढवान् तथा तेषामप्युपरि समवरूढवान्।
ⅩⅥतेन योहन् जले मज्जितवान् इति सत्यं किन्तु यूयं पवित्र आत्मनि मज्जिता भविष्यथ, इति यद्वाक्यं प्रभुरुदितवान् तत् तदा मया स्मृतम्।
ⅩⅦअतः प्रभा यीशुख्रीष्टे प्रत्ययकारिणो ये वयम् अस्मभ्यम् ईश्वरो यद् दत्तवान् तत् तेभ्यो लोकेभ्योपि दत्तवान् ततः कोहं? किमहम् ईश्वरं वारयितुं शक्नोमि?
ⅩⅧकथामेतां श्रुवा ते क्षान्ता ईश्वरस्य गुणान् अनुकीर्त्त्य कथितवन्तः, तर्हि परमायुःप्राप्तिनिमित्तम् ईश्वरोन्यदेशीयलोकेभ्योपि मनःपरिवर्त्तनरूपं दानम् अदात्।
ⅩⅨस्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।
ⅩⅩअपरं तेषां कुप्रीयाः कुरीनीयाश्च कियन्तो जना आन्तियखियानगरं गत्वा यूनानीयलोकानां समीपेपि प्रभोर्यीशोः कथां प्राचारयन्।
ⅩⅪप्रभोः करस्तेषां सहाय आसीत् तस्माद् अनेके लोका विश्वस्य प्रभुं प्रति परावर्त्तन्त।
ⅩⅫइति वार्त्तायां यिरूशालमस्थमण्डलीयलोकानां कर्णगोचरीभूतायाम् आन्तियखियानगरं गन्तु ते बर्णब्बां प्रैरयन्।
ⅩⅩⅢततो बर्णब्बास्तत्र उपस्थितः सन् ईश्वरस्यानुग्रहस्य फलं दृष्ट्वा सानन्दो जातः,
ⅩⅩⅣस स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः।
ⅩⅩⅤशेषे शौलं मृगयितुं बर्णब्बास्तार्षनगरं प्रस्थितवान्। तत्र तस्योद्देशं प्राप्य तम् आन्तियखियानगरम् आनयत्;
ⅩⅩⅥततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्।
ⅩⅩⅦततः परं भविष्यद्वादिगणे यिरूशालम आन्तियखियानगरम् आगते सति
ⅩⅩⅧआगाबनामा तेषामेक उत्थाय आत्मनः शिक्षया सर्व्वदेशे दुर्भिक्षं भविष्यतीति ज्ञापितवान्; ततः क्लौदियकैसरस्याधिकारे सति तत् प्रत्यक्षम् अभवत्।
ⅩⅩⅨतस्मात् शिष्या एकैकशः स्वस्वशक्त्यनुसारतो यिहूदीयदेशनिवासिनां भ्रतृणां दिनयापनार्थं धनं प्रेषयितुं निश्चित्य
ⅩⅩⅩबर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः।