तद्घटनातः परं पौल आथीनीनगराद् यात्रां कृत्वा करिन्थनगरम् आगच्छत्।
तस्मिन् समये क्लौदियः सर्व्वान् यिहूदीयान् रोमानगरं विहाय गन्तुम् आज्ञापयत्, तस्मात् प्रिस्किल्लानाम्ना जायया सार्द्धम् इतालियादेशात् किञ्चित्पूर्व्वम् आगमत् यः पन्तदेशे जात आक्किलनामा यिहूदीयलोकः पौलस्तं साक्षात् प्राप्य तयोः समीपमितवान्।
तौ दूष्यनिर्म्माणजीविनौ, तस्मात् परस्परम् एकवृत्तिकत्वात् स ताभ्यां सह उषित्वा तत् कर्म्माकरोत्।
पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्।
सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।
किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।
स तस्मात् प्रस्थाय भजनभवनसमीपस्थस्य युस्तनाम्न ईश्वरभक्तस्य भिन्नदेशीयस्य निवेशनं प्राविशत्।
ततः क्रीष्पनामा भजनभवनाधिपतिः सपरिवारः प्रभौ व्यश्वसीत्, करिन्थनगरीया बहवो लोकाश्च समाकर्ण्य विश्वस्य मज्जिता अभवन्।
क्षणदायां प्रभुः पौलं दर्शनं दत्वा भाषितवान्, मा भैषीः, मा निरसीः कथां प्रचारय।
अहं त्वया सार्द्धम् आस हिंसार्थं कोपि त्वां स्प्रष्टुं न शक्ष्यति नगरेऽस्मिन् मदीया लोका बहव आसते।
तस्मात् पौलस्तन्नगरे प्रायेण सार्द्धवत्सरपर्य्यन्तं संस्थायेश्वरस्य कथाम् उपादिशत्।
गाल्लियनामा कश्चिद् आखायादेशस्य प्राड्विवाकः समभवत्, ततो यिहूदीया एकवाक्याः सन्तः पौलम् आक्रम्य विचारस्थानं नीत्वा
ⅩⅢमानुष एष व्यवस्थाय विरुद्धम् ईश्वरभजनं कर्त्तुं लोकान् कुप्रवृत्तिं ग्राहयतीति निवेदितवन्तः।
ⅩⅣततः पौले प्रत्युत्तरं दातुम् उद्यते सति गाल्लिया यिहूदीयान् व्याहरत्, यदि कस्यचिद् अन्यायस्य वातिशयदुष्टताचरणस्य विचारोऽभविष्यत् तर्हि युष्माकं कथा मया सहनीयाभविष्यत्।
ⅩⅤकिन्तु यदि केवलं कथाया वा नाम्नो वा युष्माकं व्यवस्थाया विवादो भवति तर्हि तस्य विचारमहं न करिष्यामि, यूयं तस्य मीमांसां कुरुत।
ⅩⅥततः स तान् विचारस्थानाद् दूरीकृतवान्।
ⅩⅦतदा भिन्नदेशीयाः सोस्थिनिनामानं भजनभवनस्य प्रधानाधिपतिं धृत्वा विचारस्थानस्य सम्मुखे प्राहरन् तथापि गाल्लिया तेषु सर्व्वकर्म्मसु न मनो न्यदधात्।
ⅩⅧपौलस्तत्र पुनर्बहुदिनानि न्यवसत्, ततो भ्रातृगणाद् विसर्जनं प्राप्य किञ्चनव्रतनिमित्तं किंक्रियानगरे शिरो मुण्डयित्वा प्रिस्किल्लाक्किलाभ्यां सहितो जलपथेन सुरियादेशं गतवान्।
ⅩⅨतत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।
ⅩⅩते स्वैः सार्द्धं पुनः कतिपयदिनानि स्थातुं तं व्यनयन्, स तदनुररीकृत्य कथामेतां कथितवान्,
ⅩⅪयिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्।
ⅩⅫततः कैसरियाम् उपस्थितः सन् नगरं गत्वा समाजं नमस्कृत्य तस्माद् आन्तियखियानगरं प्रस्थितवान्।
ⅩⅩⅢतत्र कियत्कालं यापयित्वा तस्मात् प्रस्थाय सर्व्वेषां शिष्याणां मनांसि सुस्थिराणि कृत्वा क्रमशो गलातियाफ्रुगियादेशयो र्भ्रमित्वा गतवान्।
ⅩⅩⅣतस्मिन्नेव समये सिकन्दरियानगरे जात आपल्लोनामा शास्त्रवित् सुवक्ता यिहूदीय एको जन इफिषनगरम् आगतवान्।
ⅩⅩⅤस शिक्षितप्रभुमार्गो मनसोद्योगी च सन् योहनो मज्जनमात्रं ज्ञात्वा यथार्थतया प्रभोः कथां कथयन् समुपादिशत्।
ⅩⅩⅥएष जनो निर्भयत्वेन भजनभवने कथयितुम् आरब्धवान्, ततः प्रिस्किल्लाक्किलौ तस्योपदेशकथां निशम्य तं स्वयोः समीपम् आनीय शुद्धरूपेणेश्वरस्य कथाम् अबोधयताम्।
ⅩⅩⅦपश्चात् स आखायादेशं गन्तुं मतिं कृतवान्, तदा तत्रत्यः शिष्यगणो यथा तं गृह्लाति तदर्थं भ्रातृगणेन समाश्वस्य पत्रे लिखिते सति, आपल्लास्तत्रोपस्थितः सन् अनुग्रहेण प्रत्ययिनां बहूपकारान् अकरोत्,
ⅩⅩⅧफलतो यीशुरभिषिक्तस्त्रातेति शास्त्रप्रमाणं दत्वा प्रकाशरूपेण प्रतिपन्नं कृत्वा यिहूदीयान् निरुत्तरान् कृतवान्।