Ⅰपञ्चभ्यो दिनेभ्यः परं हनानीयनामा महायाजकोऽधिपतेः समक्षं पौलस्य प्रातिकूल्येन निवेदयितुं तर्तुल्लनामानं कञ्चन वक्तारं प्राचीनजनांश्च सङ्गिनः कृत्वा कैसरियानगरम् आगच्छत्।
Ⅱततः पौले समानीते सति तर्तुल्लस्तस्यापवादकथां कथयितुम् आरभत हे महामहिमफीलिक्ष भवतो वयम् अतिनिर्व्विघ्नं कालं यापयामो भवतः परिणामदर्शितया एतद्देशीयानां बहूनि मङ्गलानि घटितानि,
Ⅲइति हेतो र्वयमतिकृतज्ञाः सन्तः सर्व्वत्र सर्व्वदा भवतो गुणान् गायमः।
Ⅳकिन्तु बहुभिः कथाभि र्भवन्तं येन न विरञ्जयामि तस्माद् विनये भवान् बनुकम्प्य मदल्पकथां शृणोतु।
Ⅴएष महामारीस्वरूपो नासरतीयमतग्राहिसंघातस्य मुख्यो भूत्वा सर्व्वदेशेषु सर्व्वेषां यिहूदीयानां राजद्रोहाचरणप्रवृत्तिं जनयतीत्यस्माभि र्निश्चितं।
Ⅵस मन्दिरमपि अशुचि कर्त्तुं चेष्टितवान्; इति कारणाद् वयम् एनं धृत्वा स्वव्यवस्थानुसारेण विचारयितुं प्रावर्त्तामहि;
Ⅶकिन्तु लुषियः सहस्रसेनापतिरागत्य बलाद् अस्माकं करेभ्य एनं गृहीत्वा
Ⅷएतस्यापवादकान् भवतः समीपम् आगन्तुम् आज्ञापयत्। वयं यस्मिन् तमपवादामो भवता पदपवादकथायां विचारितायां सत्यां सर्व्वं वृत्तान्तं वेदितुं शक्ष्यते।
Ⅸततो यिहूदीया अपि स्वीकृत्य कथितवन्त एषा कथा प्रमाणम्।
Ⅹअधिपतौ कथां कथयितुं पौलं प्रतीङ्गितं कृतवति स कथितवान् भवान् बहून् वत्सरान् यावद् एतद्देशस्य शासनं करोतीति विज्ञाय प्रत्युत्तरं दातुम् अक्षोभोऽभवम्।
Ⅺअद्य केवलं द्वादश दिनानि यातानि, अहम् आराधनां कर्त्तुं यिरूशालमनगरं गतवान् एषा कथा भवता ज्ञातुं शक्यते;
Ⅻकिन्त्विभे मां मध्येमन्दिरं केनापि सह वितण्डां कुर्व्वन्तं कुत्रापि भजनभवने नगरे वा लोकान् कुप्रवृत्तिं जनयन्तुं न दृष्टवन्तः।
ⅩⅢइदानीं यस्मिन् यस्मिन् माम् अपवदन्ते तस्य किमपि प्रमाणं दातुं न शक्नुवन्ति।
ⅩⅣकिन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि।
ⅩⅤधार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;
ⅩⅥईश्वरस्य मानवानाञ्च समीपे यथा निर्दोषो भवामि तदर्थं सततं यत्नवान् अस्मि।
ⅩⅦबहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्।
ⅩⅧततोहं शुचि र्भूत्वा लोकानां समागमं कलहं वा न कारितवान् तथाप्याशियादेशीयाः कियन्तो यिहुदीयलोका मध्येमन्दिरं मां धृतवन्तः।
ⅩⅨममोपरि यदि काचिदपवादकथास्ति तर्हि भवतः समीपम् उपस्थाय तेषामेव साक्ष्यदानम् उचितम्।
ⅩⅩनोचेत् पूर्व्वे महासभास्थानां लोकानां सन्निधौ मम दण्डायमानत्वसमये, अहमद्य मृतानामुत्थाने युष्माभि र्विचारितोस्मि,
ⅩⅪतेषां मध्ये तिष्ठन्नहं यामिमां कथामुच्चैः स्वरेण कथितवान् तदन्यो मम कोपि दोषोऽलभ्यत न वेति वरम् एते समुपस्थितलोका वदन्तु।
ⅩⅫतदा फीलिक्ष एतां कथां श्रुत्वा तन्मतस्य विशेषवृत्तान्तं विज्ञातुं विचारं स्थगितं कृत्वा कथितवान् लुषिये सहस्रसेनापतौ समायाते सति युष्माकं विचारम् अहं निष्पादयिष्यामि।
ⅩⅩⅢअनन्तरं बन्धनं विना पौलं रक्षितुं तस्य सेवनाय साक्षात्करणाय वा तदीयात्मीयबन्धुजनान् न वारयितुञ्च शमसेनापतिम् आदिष्टवान्।
ⅩⅩⅣअल्पदिनात् परं फीलिक्षोऽधिपति र्द्रुषिल्लानाम्ना यिहूदीयया स्वभार्य्यया सहागत्य पौलमाहूय तस्य मुखात् ख्रीष्टधर्म्मस्य वृत्तान्तम् अश्रौषीत्।
ⅩⅩⅤपौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि।
ⅩⅩⅥमुक्तिप्रप्त्यर्थं पौलेन मह्यं मुद्रादास्यन्ते इति पत्याशां कृत्वा स पुनः पुनस्तमाहूय तेन साकं कथोपकथनं कृतवान्।
ⅩⅩⅦकिन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।