Ⅰजलपथेनास्माकम् इतोलियादेशं प्रति यात्रायां निश्चितायां सत्यां ते यूलियनाम्नो महाराजस्य संघातान्तर्गतस्य सेनापतेः समीपे पौलं तदन्यान् कतिनयजनांश्च समार्पयन्।
Ⅱवयम् आद्रामुत्तीयं पोतमेकम् आरुह्य आशियादेशस्य तटसमीपेन यातुं मतिं कृत्वा लङ्गरम् उत्थाप्य पोतम् अमोचयाम; माकिदनियादेशस्थथिषलनीकीनिवास्यारिस्तार्खनामा कश्चिद् जनोऽस्माभिः सार्द्धम् आसीत्।
Ⅲपरस्मिन् दिवसे ऽस्माभिः सीदोन्नगरे पोते लागिते तत्र यूलियः सेनापतिः पौलं प्रति सौजन्यं प्रदर्थ्य सान्त्वनार्थं बन्धुबान्धवान् उपयातुम् अनुजज्ञौ।
Ⅳतस्मात् पोते मोचिते सति सम्मुखवायोः सम्भवाद् वयं कुप्रोपद्वीपस्य तीरसमीपेन गतवन्तः।
Ⅴकिलिकियायाः पाम्फूलियायाश्च समुद्रस्य पारं गत्वा लूकियादेशान्तर्गतं मुरानगरम् उपातिष्ठाम।
Ⅵतत्स्थानाद् इतालियादेशं गच्छति यः सिकन्दरियानगरस्य पोतस्तं तत्र प्राप्य शतसेनापतिस्तं पोतम् अस्मान् आरोहयत्।
Ⅶततः परं बहूनि दिनानि शनैः शनैः र्गत्वा क्नीदपार्श्वोपस्थ्तिेः पूर्व्वं प्रतिकूलेन पवनेन वयं सल्मोन्याः सम्मुखम् उपस्थाय क्रीत्युपद्वीपस्य तीरसमीपेन गतवन्तः।
Ⅷकष्टेन तमुत्तीर्य्य लासेयानगरस्याधः सुन्दरनामकं खातम् उपातिष्ठाम।
Ⅸइत्थं बहुतिथः कालो यापित उपवासदिनञ्चातीतं, तत्कारणात् नौवर्त्मनि भयङ्करे सति पौलो विनयेन कथितवान्,
Ⅹहे महेच्छा अहं निश्चयं जानामि यात्रायामस्याम् अस्माकं क्लेशा बहूनामपचयाश्च भविष्यन्ति, ते केवलं पोतसामग्र्योरिति नहि, किन्त्वस्माकं प्राणानामपि।
Ⅺतदा शतसेनापतिः पौैेलोक्तवाक्यतोपि कर्णधारस्य पोतवणिजश्च वाक्यं बहुमंस्त।
Ⅻतत् खातं शीतकाले वासार्हस्थानं न तस्माद् अवाचीप्रतीचोर्दिशोः क्रीत्याः फैनीकियखातं यातुं यदि शक्नुवन्तस्तर्हि तत्र शीतकालं यापयितुं प्रायेण सर्व्वे मन्त्रयामासुः।
ⅩⅢततः परं दक्षिणवायु र्मन्दं वहतीति विलोक्य निजाभिप्रायस्य सिद्धेः सुयोगो भवतीति बुद्ध्वा पोतं मोचयित्वा क्रीत्युपद्वीपस्य तीरसमीपेन चलितवन्तः।
ⅩⅣकिन्त्वल्पक्षणात् परमेव उरक्लुदोन्नामा प्रतिकूलः प्रचण्डो वायु र्वहन् पोतेऽलगीत्
ⅩⅤतस्याभिमुखं गन्तुम् पोतस्याशक्तत्वाद् वयं वायुना स्वयं नीताः।
ⅩⅥअनन्तरं क्लौदीनाम्न उपद्वीपस्य कूलसमीपेन पोतं गमयित्वा बहुना कष्टेन क्षुद्रनावम् अरक्षाम।
ⅩⅦते तामारुह्य रज्ज्चा पोतस्याधोभागम् अबध्नन् तदनन्तरं चेत् पोतो सैकते लगतीति भयाद् वातवसनान्यमोचयन् ततः पोतो वायुना चालितः।
ⅩⅧकिन्तु क्रमशो वायोः प्रबलत्वात् पोतो दोलायमानोऽभवत् परस्मिन् दिवसे पोतस्थानि कतिपयानि द्रव्याणि तोये निक्षिप्तानि।
ⅩⅨतृतीयदिवसे वयं स्वहस्तैः पोतसज्जनद्रव्याणि निक्षिप्तवन्तः।
ⅩⅩततो बहुदिनानि यावत् सूर्य्यनक्षत्रादीनि समाच्छन्नानि ततो ऽतीव वात्यागमाद् अस्माकं प्राणरक्षायाः कापि प्रत्याशा नातिष्ठत्।
ⅩⅪबहुदिनेषु लोकैरनाहारेण यापितेषु सर्व्वेषां साक्षत् पौलस्तिष्ठन् अकथयत्, हे महेच्छाः क्रीत्युपद्वीपात् पोतं न मोचयितुम् अहं पूर्व्वं यद् अवदं तद्ग्रहणं युष्माकम् उचितम् आसीत् तथा कृते युष्माकम् एषा विपद् एषोऽपचयश्च नाघटिष्येताम्।
ⅩⅫकिन्तु साम्प्रतं युष्मान् विनीय ब्रवीम्यहं, यूयं न क्षुभ्यत युष्माकम् एकस्यापि प्राणिनो हानि र्न भविष्यति, केवलस्य पोतस्य हानि र्भविष्यति।
ⅩⅩⅢयतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्,
ⅩⅩⅣहे पौल मा भैषीः कैसरस्य सम्मुखे त्वयोपस्थातव्यं; तवैतान् सङ्गिनो लोकान् ईश्वरस्तुभ्यं दत्तवान्।
ⅩⅩⅤअतएव हे महेच्छा यूयं स्थिरमनसो भवत मह्यं या कथाकथि सावश्यं घटिष्यते ममैतादृशी विश्वास ईश्वरे विद्यते,
ⅩⅩⅥकिन्तु कस्यचिद् उपद्वीपस्योपरि पतितव्यम् अस्माभिः।
ⅩⅩⅦततः परम् आद्रियासमुद्रे पोतस्तथैव दोलायमानः सन् इतस्ततो गच्छन् चतुर्दशदिवसस्य रात्रे र्द्वितीयप्रहरसमये कस्यचित् स्थलस्य समीपमुपतिष्ठतीति पोतीयलोका अन्वमन्यन्त।
ⅩⅩⅧततस्ते जलं परिमाय तत्र विंशति र्व्यामा जलानीति ज्ञातवन्तः। किञ्चिद्दूरं गत्वा पुनरपि जलं परिमितवन्तः। तत्र पञ्चदश व्यामा जलानि दृष्ट्वा
ⅩⅩⅨचेत् पाषाणे लगतीति भयात् पोतस्य पश्चाद्भागतश्चतुरो लङ्गरान् निक्षिप्य दिवाकरम् अपेक्ष्य सर्व्वे स्थितवन्तः।
ⅩⅩⅩकिन्तु पोतीयलोकाः पोताग्रभागे लङ्गरनिक्षेपं छलं कृत्वा जलधौ क्षुद्रनावम् अवरोह्य पलायितुम् अचेष्टन्त।
ⅩⅩⅪततः पौलः सेनापतये सैन्यगणाय च कथितवान्, एते यदि पोतमध्ये न तिष्ठन्ति तर्हि युष्माकं रक्षणं न शक्यं।
ⅩⅩⅫतदा सेनागणो रज्जून् छित्वा नावं जले पतितुम् अददात्।
ⅩⅩⅩⅢप्रभातसमये पौलः सर्व्वान् जनान् भोजनार्थं प्रार्थ्य व्याहरत्, अद्य चतुर्दशदिनानि यावद् यूयम् अपेक्षमाना अनाहाराः कालम् अयापयत किमपि नाभुंग्धं।
ⅩⅩⅩⅣअतो विनयेेऽहं भक्ष्यं भुज्यतां ततो युष्माकं मङ्गलं भविष्यति, युष्माकं कस्यचिज्जनस्य शिरसः केशैकोपि न नंक्ष्यति।
ⅩⅩⅩⅤइति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्।
ⅩⅩⅩⅥअनन्तरं सर्व्वे च सुस्थिराः सन्तः खाद्यानि पर्प्यगृह्लन्।
ⅩⅩⅩⅦअस्माकं पोते षट्सप्तत्यधिकशतद्वयलोका आसन्।
ⅩⅩⅩⅧसर्व्वेषु लोकेषु यथेष्टं भुक्तवत्सु पोतस्थन् गोधूमान् जलधौ निक्षिप्य तैः पोतस्य भारो लघूकृतः।
ⅩⅩⅩⅨदिने जातेऽपि स को देश इति तदा न पर्य्यचीयत; किन्तु तत्र समतटम् एकं खातं दृष्ट्वा यदि शक्नुमस्तर्हि वयं तस्याभ्यन्तरं पोतं गमयाम इति मतिं कृत्वा ते लङ्गरान् छित्त्वा जलधौ त्यक्तवन्तः।
ⅩⅬतथा कर्णबन्धनं मोचयित्वा प्रधानं वातवसनम् उत्तोल्य तीरसमीपं गतवन्तः।
ⅩⅬⅠकिन्तु द्वयोः समुद्रयोः सङ्गमस्थाने सैकतोपरि पोते निक्षिप्ते ऽग्रभागे बाधिते पश्चाद्भागे प्रबलतरङ्गोऽलगत् तेन पोतो भग्नः।
ⅩⅬⅡतस्माद् बन्दयश्चेद् बाहुभिस्तरन्तः पलायन्ते इत्याशङ्कया सेनागणस्तान् हन्तुम् अमन्त्रयत्;
ⅩⅬⅢकिन्तु शतसेनापतिः पौलं रक्षितुं प्रयत्नं कृत्वा तान् तच्चेष्टाया निवर्त्य इत्यादिष्टवान्, ये बाहुतरणं जानन्ति तेऽग्रे प्रोल्लम्प्य समुद्रे पतित्वा बाहुभिस्तीर्त्त्वा कूलं यान्तु।
ⅩⅬⅣअपरम् अवशिष्टा जनाः काष्ठं पोतीयं द्रव्यं वा येन यत् प्राप्यते तदवलम्ब्य यान्तु; इत्थं सर्व्वे भूमिं प्राप्य प्राणै र्जीविताः।