Ⅰअपरञ्च हे अधिपतयः, यूयं दासान् प्रति न्याय्यं यथार्थञ्चाचरणं कुरुध्वं युष्माकमप्येकोऽधिपतिः स्वर्गे विद्यत इति जानीत।
Ⅱयूयं प्रार्थनायां नित्यं प्रवर्त्तध्वं धन्यवादं कुर्व्वन्तस्तत्र प्रबुद्धास्तिष्ठत च।
Ⅲप्रार्थनाकाले ममापि कृते प्रार्थनां कुरुध्वं,
Ⅳफलतः ख्रीष्टस्य यन्निगूढवाक्यकारणाद् अहं बद्धोऽभवं तत्प्रकाशायेश्वरो यत् मदर्थं वाग्द्वारं कुर्य्यात्, अहञ्च यथोचितं तत् प्रकाशयितुं शक्नुयाम् एतत् प्रार्थयध्वं।
Ⅴयूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं।
Ⅵयुष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।
Ⅶमम या दशाक्ति तां तुखिकनामा प्रभौ प्रियो मम भ्राता विश्वसनीयः परिचारकः सहदासश्च युष्मान् ज्ञापयिष्यति।
Ⅷस यद् युष्माकं दशां जानीयात् युष्माकं मनांसि सान्त्वयेच्च तदर्थमेवाहं
Ⅸतम् ओनीषिमनामानञ्च युष्मद्देशीयं विश्वस्तं प्रियञ्च भ्रातरं प्रेषितवान् तौ युष्मान् अत्रत्यां सर्व्ववार्त्तां ज्ञापयिष्यतः।
Ⅹआरिष्टार्खनामा मम सहबन्दी बर्णब्बा भागिनेयो मार्को युष्टनाम्ना विख्यातो यीशुश्चैते छिन्नत्वचो भ्रातरो युष्मान् नमस्कारं ज्ञापयन्ति, तेषां मध्ये मार्कमधि यूयं पूर्व्वम् आज्ञापिताः स यदि युष्मत्समीपम् उपतिष्ठेत् तर्हि युष्माभि र्गृह्यतां।
Ⅺकेवलमेत ईश्वरराज्ये मम सान्त्वनाजनकाः सहकारिणोऽभवन्।
Ⅻख्रीष्टस्य दासो यो युष्मद्देशीय इपफ्राः स युष्मान् नमस्कारं ज्ञापयति यूयञ्चेश्वरस्य सर्व्वस्मिन् मनोऽभिलाषे यत् सिद्धाः पूर्णाश्च भवेत तदर्थं स नित्यं प्रार्थनया युष्माकं कृते यतते।
ⅩⅢयुष्माकं लायदिकेयास्थितानां हियरापलिस्थितानाञ्च भ्रातृणां हिताय सोऽतीव चेष्टत इत्यस्मिन् अहं तस्य साक्षी भवामि।
ⅩⅣलूकनामा प्रियश्चिकित्सको दीमाश्च युष्मभ्यं नमस्कुर्व्वाते।
ⅩⅤयूयं लायदिकेयास्थान् भ्रातृन् नुम्फां तद्गृहस्थितां समितिञ्च मम नमस्कारं ज्ञापयत।
ⅩⅥअपरं युष्मत्सन्निधौ पत्रस्यास्य पाठे कृते लायदिकेयास्थसमितावपि तस्य पाठो यथा भवेत् लायदिकेयाञ्च यत् पत्रं मया प्रहितं तद् यथा युष्माभिरपि पठ्येत तथा चेष्टध्वं।
ⅩⅦअपरम् आर्खिप्पं वदत प्रभो र्यत् परिचर्य्यापदं त्वयाप्रापि तत्साधनाय सावधानो भव।
ⅩⅧअहं पौलः स्वहस्ताक्षरेण युष्मान् नमस्कारं ज्ञापयामि यूयं मम बन्धनं स्मरत। युष्मान् प्रत्यनुग्रहो भूयात्। आमेन।