हे निर्ब्बोधा गालातिलोकाः, युष्माकं मध्ये क्रुशे हत इव यीशुः ख्रीष्टो युष्माकं समक्षं प्रकाशित आसीत् अतो यूयं यथा सत्यं वाक्यं न गृह्लीथ तथा केनामुह्यत?
अहं युष्मत्तः कथामेकां जिज्ञासे यूयम् आत्मानं केनालभध्वं? व्यवस्थापालनेन किं वा विश्वासवाक्यस्य श्रवणेन?
यूयं किम् ईदृग् अबोधा यद् आत्मना कर्म्मारभ्य शरीरेण तत् साधयितुं यतध्वे?
तर्हि युष्माकं गुरुतरो दुःखभोगः किं निष्फलो भविष्यति? कुफलयुक्तो वा किं भविष्यति?
यो युष्मभ्यम् आत्मानं दत्तवान् युष्मन्मध्य आश्चर्य्याणि कर्म्माणि च साधितवान् स किं व्यवस्थापालनेन विश्वासवाक्यस्य श्रवणेन वा तत् कृतवान्?
लिखितमास्ते, इब्राहीम ईश्वरे व्यश्वसीत् स च विश्वासस्तस्मै पुण्यार्थं गणितो बभूव,
अतो ये विश्वासाश्रितास्त एवेब्राहीमः सन्ताना इति युष्माभि र्ज्ञायतां।
ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।
अतो ये विश्वासाश्रितास्ते विश्वासिनेब्राहीमा सार्द्धम् आशिषं लभन्ते।
यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।"
ईश्वरस्य साक्षात् कोऽपि व्यवस्थया सपुण्यो न भवति तद व्यक्तं यतः "पुण्यवान् मानवो विश्वासेन जीविष्यतीति" शास्त्रीयं वचः।
व्यवस्था तु विश्वाससम्बन्धिनी न भवति किन्त्वेतानि यः पालयिष्यति स एव तै र्जीविष्यतीतिनियमसम्बन्धिनी।
ⅩⅢख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"
ⅩⅣतस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।
ⅩⅤहे भ्रातृगण मानुषाणां रीत्यनुसारेणाहं कथयामि केनचित् मानवेन यो नियमो निरचायि तस्य विकृति र्वृद्धि र्वा केनापि न क्रियते।
ⅩⅥपरन्त्विब्राहीमे तस्य सन्तानाय च प्रतिज्ञाः प्रति शुश्रुविरे तत्र सन्तानशब्दं बहुवचनान्तम् अभूत्वा तव सन्तानायेत्येकवचनान्तं बभूव स च सन्तानः ख्रीष्ट एव।
ⅩⅦअतएवाहं वदामि, ईश्वरेण यो नियमः पुरा ख्रीष्टमधि निरचायि ततः परं त्रिंशदधिकचतुःशतवत्सरेषु गतेषु स्थापिता व्यवस्था तं नियमं निरर्थकीकृत्य तदीयप्रतिज्ञा लोप्तुं न शक्नोति।
ⅩⅧयस्मात् सम्पदधिकारो यदि व्यवस्थया भवति तर्हि प्रतिज्ञया न भवति किन्त्वीश्वरः प्रतिज्ञया तदधिकारित्वम् इब्राहीमे ऽददात्।
ⅩⅨतर्हि व्यवस्था किम्भूता? प्रतिज्ञा यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज्ञापिता मध्यस्थस्य करे समर्पिता च।
ⅩⅩनैकस्य मध्यस्थो विद्यते किन्त्वीश्वर एक एव।
ⅩⅪतर्हि व्यवस्था किम् ईश्वरस्य प्रतिज्ञानां विरुद्धा? तन्न भवतु। यस्माद् यदि सा व्यवस्था जीवनदानेसमर्थाभविष्यत् तर्हि व्यवस्थयैव पुण्यलाभोऽभविष्यत्।
ⅩⅫकिन्तु यीशुख्रीष्टे यो विश्वासस्तत्सम्बन्धियाः प्रतिज्ञायाः फलं यद् विश्वासिलोकेभ्यो दीयते तदर्थं शास्त्रदाता सर्व्वान् पापाधीनान् गणयति।
ⅩⅩⅢअतएव विश्वासस्यानागतसमये वयं व्यवस्थाधीनाः सन्तो विश्वासस्योदयं यावद् रुद्धा इवारक्ष्यामहे।
ⅩⅩⅣइत्थं वयं यद् विश्वासेन सपुण्यीभवामस्तदर्थं ख्रीष्टस्य समीपम् अस्मान् नेतुं व्यवस्थाग्रथोऽस्माकं विनेता बभूव।
ⅩⅩⅤकिन्त्वधुनागते विश्वासे वयं तस्य विनेतुरनधीना अभवाम।
ⅩⅩⅥख्रीष्टे यीशौ विश्वसनात् सर्व्वे यूयम् ईश्वरस्य सन्ताना जाताः।
ⅩⅩⅦयूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।
ⅩⅩⅧअतो युष्मन्मध्ये यिहूदियूनानिनो र्दासस्वतन्त्रयो र्योषापुरुषयोश्च कोऽपि विशेषो नास्ति; सर्व्वे यूयं ख्रीष्टे यीशावेक एव।
ⅩⅩⅨकिञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे।