शालमस्य राजा सर्व्वोपरिस्थस्येश्वरस्य याजकश्च सन् यो नृपतीनां मारणात् प्रत्यागतम् इब्राहीमं साक्षात्कृत्याशिषं गदितवान्,
यस्मै चेब्राहीम् सर्व्वद्रव्याणां दशमांशं दत्तवान् स मल्कीषेदक् स्वनाम्नोऽर्थेन प्रथमतो धर्म्मराजः पश्चात् शालमस्य राजार्थतः शान्तिराजो भवति।
अपरं तस्य पिता माता वंशस्य निर्णय आयुष आरम्भो जीवनस्य शेषश्चैतेषाम् अभावो भवति, इत्थं स ईश्वरपुत्रस्य सदृशीकृतः, स त्वनन्तकालं यावद् याजकस्तिष्ठति।
अतएवास्माकं पूर्व्वपुरुष इब्राहीम् यस्मै लुठितद्रव्याणां दशमांशं दत्तवान् स कीदृक् महान् तद् आलोचयत।
याजकत्वप्राप्ता लेवेः सन्ताना व्यवस्थानुसारेण लोकेभ्योऽर्थत इब्राहीमो जातेभ्यः स्वीयभ्रातृभ्यो दशमांशग्रहणस्यादेशं लब्धवन्तः।
किन्त्वसौ यद्यपि तेषां वंशात् नोत्पन्नस्तथापीब्राहीमो दशमांशं गृहीतवान् प्रतिज्ञानाम् अधिकारिणम् आशिषं गदितवांश्च।
अपरं यः श्रेयान् स क्षुद्रतरायाशिषं ददातीत्यत्र कोऽपि सन्देहो नास्ति।
अपरम् इदानीं ये दशमांशं गृह्लन्ति ते मृत्योरधीना मानवाः किन्तु तदानीं यो गृहीतवान् स जीवतीतिप्रमाणप्राप्तः।
अपरं दशमांशग्राही लेविरपीब्राहीम्द्वारा दशमांशं दत्तवान् एतदपि कथयितुं शक्यते।
यतो यदा मल्कीषेदक् तस्य पितरं साक्षात् कृतवान् तदानीं स लेविः पितुरुरस्यासीत्।
अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्?
यतो याजकवर्गस्य विनिमयेन सुतरां व्यवस्थाया अपि विनिमयो जायते।
ⅩⅢअपरञ्च तद् वाक्यं यस्योद्देश्यं सोऽपरेण वंशेन संयुक्ताऽस्ति तस्य वंशस्य च कोऽपि कदापि वेद्याः कर्म्म न कृतवान्।
ⅩⅣवस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं।
ⅩⅤतस्य स्पष्टतरम् अपरं प्रमाणमिदं यत् मल्कीषेदकः सादृश्यवतापरेण तादृशेन याजकेनोदेतव्यं,
ⅩⅥयस्य निरूपणं शरीरसम्बन्धीयविधियुक्तया व्यवस्थाया न भवति किन्त्वक्षयजीवनयुक्तया शक्त्या भवति।
ⅩⅦयत ईश्वर इदं साक्ष्यं दत्तवान्, यथा, "त्वं मक्लीषेदकः श्रेण्यां याजकोऽसि सदातनः।"
ⅩⅧअनेनाग्रवर्त्तिनो विधे दुर्ब्बलताया निष्फलतायाश्च हेतोरर्थतो व्यवस्थया किमपि सिद्धं न जातमितिहेतोस्तस्य लोपो भवति।
ⅩⅨयया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते।
ⅩⅩअपरं यीशुः शपथं विना न नियुक्तस्तस्मादपि स श्रेष्ठनियमस्य मध्यस्थो जातः।
ⅩⅪयतस्ते शपथं विना याजका जाताः किन्त्वसौ शपथेन जातः यतः स इदमुक्तः, यथा,
ⅩⅫ"परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।"
ⅩⅩⅢते च बहवो याजका अभवन् यतस्ते मृत्युना नित्यस्थायित्वात् निवारिताः,
ⅩⅩⅣकिन्त्वसावनन्तकालं यावत् तिष्ठति तस्मात् तस्य याजकत्वं न परिवर्त्तनीयं।
ⅩⅩⅤततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति।
ⅩⅩⅥअपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।
ⅩⅩⅦअपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं।
ⅩⅩⅧयतो व्यवस्थया ये महायाजका निरूप्यन्ते ते दौर्ब्बल्ययुक्ता मानवाः किन्तु व्यवस्थातः परं शपथयुक्तेन वाक्येन यो महायाजको निरूपितः सो ऽनन्तकालार्थं सिद्धः पुत्र एव।