अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्फगिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,
युवां सम्मुखस्थग्रामं गत्वा बद्धां यां सवत्सां गर्द्दभीं हठात् प्राप्स्यथः, तां मोचयित्वा मदन्तिकम् आनयतं।
तत्र यदि कश्चित् किञ्चिद् वक्ष्यति, तर्हि वदिष्यथः, एतस्यां प्रभोः प्रयोजनमास्ते, तेन स तत्क्षणात् प्रहेष्यति।
सीयोनः कन्यकां यूयं भाषध्वमिति भारतीं। पश्य ते नम्रशीलः सन् नृप आरुह्य गर्दभीं। अर्थादारुह्य तद्वत्समायास्यति त्वदन्तिकं।
भविष्यद्वादिनोक्तं वचनमिदं तदा सफलमभूत्।
अनन्तरं तौ श्ष्यिौ यीशो र्यथानिदेशं तं ग्रामं गत्वा
गर्दभीं तद्वत्सञ्च समानीतवन्तौ, पश्चात् तदुपरि स्वीयवसनानी पातयित्वा तमारोहयामासतुः।
ततो बहवो लोका निजवसनानि पथि प्रसारयितुमारेभिरे, कतिपया जनाश्च पादपपर्णादिकं छित्वा पथि विस्तारयामासुः।
अग्रगामिनः पश्चाद्गामिनश्च मनुजा उच्चैर्जय जय दायूदः सन्तानेति जगदुः परमेश्वरस्य नाम्ना य आयाति स धन्यः, सर्व्वोपरिस्थस्वर्गेपि जयति।
इत्थं तस्मिन् यिरूशालमं प्रविष्टे कोऽयमिति कथनात् कृत्स्नं नगरं चञ्चलमभवत्।
तत्र लोकोः कथयामासुः, एष गालील्प्रदेशीय-नासरतीय-भविष्यद्वादी यीशुः।
अनन्तरं यीशुरीश्वरस्य मन्दिरं प्रविश्य तन्मध्यात् क्रयविक्रयिणो वहिश्चकार; वणिजां मुद्रासनानी कपोतविक्रयिणाञ्चसनानी च न्युव्जयामास।
ⅩⅢअपरं तानुवाच, एषा लिपिरास्ते, "मम गृहं प्रार्थनागृहमिति विख्यास्यति", किन्तु यूयं तद् दस्यूनां गह्वरं कृतवन्तः।
ⅩⅣतदनन्तरम् अन्धखञ्चलोकास्तस्य समीपमागताः, स तान् निरामयान् कृतवान्।
ⅩⅤयदा प्रधानयाजका अध्यापकाश्च तेन कृतान्येतानि चित्रकर्म्माणि ददृशुः, जय जय दायूदः सन्तान, मन्दिरे बालकानाम् एतादृशम् उच्चध्वनिं शुश्रुवुश्च, तदा महाक्रुद्धा बभूवः,
ⅩⅥतं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?
ⅩⅦततस्तान् विहाय स नगराद् बैथनियाग्रामं गत्वा तत्र रजनीं यापयामास।
ⅩⅧअनन्तरं प्रभाते सति यीशुः पुनरपि नगरमागच्छन् क्षुधार्त्तो बभूव।
ⅩⅨततो मार्गपार्श्व उडुम्बरवृक्षमेकं विलोक्य तत्समीपं गत्वा पत्राणि विना किमपि न प्राप्य तं पादपं प्रोवाच, अद्यारभ्य कदापि त्वयि फलं न भवतु; तेन तत्क्षणात् स उडुम्बरमाहीरुहः शुष्कतां गतः।
ⅩⅩतद् दृष्ट्वा शिष्या आश्चर्य्यं विज्ञाय कथयामासुः, आः, उडुम्वरपादपोऽतितूर्णं शुष्कोऽभवत्।
ⅩⅪततो यीशुस्तानुवाच, युष्मानहं सत्यं वदामि, यदि यूयमसन्दिग्धाः प्रतीथ, तर्हि यूयमपि केवलोडुम्वरपादपं प्रतीत्थं कर्त्तुं शक्ष्यथ, तन्न, त्वं चलित्वा सागरे पतेति वाक्यं युष्माभिरस्मिन शैले प्रोक्तेपि तदैव तद् घटिष्यते।
ⅩⅫतथा विश्वस्य प्रार्थ्य युष्माभि र्यद् याचिष्यते, तदेव प्राप्स्यते।
ⅩⅩⅢअनन्तरं मन्दिरं प्रविश्योपदेशनसमये तत्समीपं प्रधानयाजकाः प्राचीनलोकाश्चागत्य पप्रच्छुः, त्वया केन सामर्थ्यनैतानि कर्म्माणि क्रियन्ते? केन वा तुभ्यमेतानि सामर्थ्यानि दत्तानि?
ⅩⅩⅣततो यीशुः प्रत्यवदत्, अहमपि युष्मान् वाचमेकां पृच्छामि, यदि यूयं तदुत्तरं दातुं शक्ष्यथ, तदा केन सामर्थ्येन कर्म्माण्येतानि करोमि, तदहं युष्मान् वक्ष्यामि।
ⅩⅩⅤयोहनो मज्जनं कस्याज्ञयाभवत्? किमीश्वरस्य मनुष्यस्य वा? ततस्ते परस्परं विविच्य कथयामासुः, यदीश्वरस्येति वदामस्तर्हि यूयं तं कुतो न प्रत्यैत? वाचमेतां वक्ष्यति।
ⅩⅩⅥमनुष्यस्येति वक्तुमपि लोकेभ्यो बिभीमः, यतः सर्व्वैरपि योहन् भविष्यद्वादीति ज्ञायते।
ⅩⅩⅦतस्मात् ते यीशुं प्रत्यवदन्, तद् वयं न विद्मः। तदा स तानुक्तवान्, तर्हि केन सामरथ्येन कर्म्माण्येतान्यहं करोमि, तदप्यहं युष्मान् न वक्ष्यामि।
ⅩⅩⅧकस्यचिज्जनस्य द्वौ सुतावास्तां स एकस्य सुतस्य समीपं गत्वा जगाद, हे सुत, त्वमद्य मम द्राक्षाक्षेत्रे कर्म्म कर्तुं व्रज।
ⅩⅩⅨततः स उक्तवान्, न यास्यामि, किन्तु शेषेऽनुतप्य जगाम।
ⅩⅩⅩअनन्तरं सोन्यसुतस्य समीपं गत्वा तथैव कथ्तिवान्; ततः स प्रत्युवाच, महेच्छ यामि, किन्तु न गतः।
ⅩⅩⅪएतयोः पुत्रयो र्मध्ये पितुरभिमतं केन पालितं? युष्माभिः किं बुध्यते? ततस्ते प्रत्यूचुः, प्रथमेन पुुत्रेण। तदानीं यीशुस्तानुवाच, अहं युष्मान् तथ्यं वदामि, चण्डाला गणिकाश्च युष्माकमग्रत ईश्वरस्य राज्यं प्रविशन्ति।
ⅩⅩⅫयतो युष्माकं समीपं योहनि धर्म्मपथेनागते यूयं तं न प्रतीथ, किन्तु चण्डाला गणिकाश्च तं प्रत्यायन्, तद् विलोक्यापि यूयं प्रत्येतुं नाखिद्यध्वं।
ⅩⅩⅩⅢअपरमेकं दृष्टान्तं शृणुत, कश्चिद् गृहस्थः क्षेत्रे द्राक्षालता रोपयित्वा तच्चतुर्दिक्षु वारणीं विधाय तन्मध्ये द्राक्षायन्त्रं स्थापितवान्, माञ्चञ्च निर्म्मितवान्, ततः कृषकेषु तत् क्षेत्रं समर्प्य स्वयं दूरदेशं जगाम।
ⅩⅩⅩⅣतदनन्तरं फलसमय उपस्थिते स फलानि प्राप्तुं कृषीवलानां समीपं निजदासान् प्रेषयामास।
ⅩⅩⅩⅤकिन्तु कृषीवलास्तस्य तान् दासेयान् धृत्वा कञ्चन प्रहृतवन्तः, कञ्चन पाषाणैराहतवन्तः, कञ्चन च हतवन्तः।
ⅩⅩⅩⅥपुनरपि स प्रभुः प्रथमतोऽधिकदासेयान् प्रेषयामास, किन्तु ते तान् प्रत्यपि तथैव चक्रुः।
ⅩⅩⅩⅦअनन्तरं मम सुते गते तं समादरिष्यन्ते, इत्युक्त्वा शेषे स निजसुतं तेषां सन्निधिं प्रेषयामास।
ⅩⅩⅩⅧकिन्तु ते कृषीवलाः सुतं वीक्ष्य परस्परम् इति मन्त्रयितुम् आरेभिरे, अयमुत्तराधिकारी वयमेनं निहत्यास्याधिकारं स्ववशीकरिष्यामः।
ⅩⅩⅩⅨपश्चात् ते तं धृत्वा द्राक्षाक्षेत्राद् बहिः पातयित्वाबधिषुः।
ⅩⅬयदा स द्राक्षाक्षेत्रपतिरागमिष्यति, तदा तान् कृषीवलान् किं करिष्यति?
ⅩⅬⅠततस्ते प्रत्यवदन्, तान् कलुषिणो दारुणयातनाभिराहनिष्यति, ये च समयानुक्रमात् फलानि दास्यन्ति, तादृशेषु कृषीवलेषु क्षेत्रं समर्पयिष्यति।
ⅩⅬⅡतदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?
ⅩⅬⅢतस्मादहं युष्मान् वदामि, युष्मत्त ईश्वरीयराज्यमपनीय फलोत्पादयित्रन्यजातये दायिष्यते।
ⅩⅬⅣयो जन एतत्पाषाणोपरि पतिष्यति, तं स भंक्ष्यते, किन्त्वयं पाषाणो यस्योपरि पतिष्यति, तं स धूलिवत् चूर्णीकरिष्यति।
ⅩⅬⅤतदानीं प्राधनयाजकाः फिरूशिनश्च तस्येमां दृष्टान्तकथां श्रुत्वा सोऽस्मानुद्दिश्य कथितवान्, इति विज्ञाय तं धर्त्तुं चेष्टितवन्तः;
ⅩⅬⅥकिन्तु लोकेभ्यो बिभ्युः, यतो लोकैः स भविष्यद्वादीत्यज्ञायि।