अपरं सार्द्दिस्थसमिते र्दूतं प्रतीदं लिख, यो जन ईश्वरस्य सप्तात्मनः सप्त ताराश्च धारयति स एव भाषते, तव क्रिया मम गोचराः, त्वं जीवदाख्यो ऽसि तथापि मृतो ऽसि तदपि जानामि।
प्रबुद्धो भव, अवशिष्टं यद्यत् मृतकल्पं तदपि सबलीकुरु यत ईश्वरस्य साक्षात् तव कर्म्माणि न सिद्धानीति प्रमाणं मया प्राप्तं।
अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।
तथापि यैः स्ववासांसि न कलङ्कितानि तादृशाः कतिपयलोकाः सार्द्दिनगरे ऽपि तव विद्यन्ते ते शुभ्रपरिच्छदै र्मम सङ्गे गमनागमने करिष्यन्ति यतस्ते योग्याः।
यो जनो जयति स शुभ्रपरिच्छदं परिधापयिष्यन्ते, अहञ्च जीवनग्रन्थात् तस्य नाम नान्तर्धापयिष्यामि किन्तु मत्पितुः साक्षात् तस्य दूतानां साक्षाच्च तस्य नाम स्वीकरिष्यामि।
यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु।
अपरञ्च फिलादिल्फियास्थसमिते र्दूतं प्रतीदं लिख, यः पवित्रः सत्यमयश्चास्ति दायूदः कुञ्जिकां धारयति च येन मोचिते ऽपरः कोऽपि न रुणद्धि रुद्धे चापरः कोऽपि न मोचयति स एव भाषते।
तव क्रिया मम गोचराः पश्य तव समीपे ऽहं मुक्तं द्वारं स्थापितवान् तत् केनापि रोद्धुं न शक्यते यतस्तवाल्पं बलमास्ते तथापि त्वं मम वाक्यं पालितवान् मम नाम्नो ऽस्वीकारं न कृतवांश्च।
पश्य यिहूदीया न सन्तो ये मृषावादिनः स्वान् यिहूदीयान् वदन्ति तेषां शयतानसमाजीयानां कांश्चिद् अहम् आनेष्यामि पश्य ते मदाज्ञात आगत्य तव चरणयोः प्रणंस्यन्ति त्वञ्च मम प्रियो ऽसीति ज्ञास्यन्ति।
त्वं मम सहिष्णुतासूचकं वाक्यं रक्षितवानसि तत्कारणात् पृथिवीनिवासिनां परीक्षार्थं कृत्स्नं जगद् येनागामिपरीक्षादिनेनाक्रमिष्यते तस्माद् अहमपि त्वां रक्षिष्यामि।
पश्य मया शीघ्रम् आगन्तव्यं तव यदस्ति तत् धारय को ऽपि तव किरीटं नापहरतु।
यो जनो जयति तमहं मदीयेश्वरस्य मन्दिरे स्तम्भं कृत्वा स्थापयिस्यामि स पुन र्न निर्गमिष्यति। अपरञ्च तस्मिन् मदीयेश्वरस्य नाम मदीयेश्वरस्य पुर्य्या अपि नाम अर्थतो या नवीना यिरूशानम् पुरी स्वर्गात् मदीयेश्वरस्य समीपाद् अवरोक्ष्यति तस्या नाम ममापि नूतनं नाम लेखिष्यामि।
ⅩⅢयस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु।
ⅩⅣअपरञ्च लायदिकेयास्थसमिते र्दूतं प्रतीदं लिख, य आमेन् अर्थतो विश्वास्यः सत्यमयश्च साक्षी, ईश्वरस्य सृष्टेरादिश्चास्ति स एव भाषते।
ⅩⅤतव क्रिया मम गोचराः त्वं शीतो नासि तप्तो ऽपि नासीति जानामि।
ⅩⅥतव शीतत्वं तप्तत्वं वा वरं भवेत्, शीतो न भूत्वा तप्तो ऽपि न भूत्वा त्वमेवम्भूतः कदूष्णो ऽसि तत्कारणाद् अहं स्वमुखात् त्वाम् उद्वमिष्यामि।
ⅩⅦअहं धनी समृद्धश्चास्मि मम कस्याप्यभावो न भवतीति त्वं वदसि किन्तु त्वमेव दुःखार्त्तो दुर्गतो दरिद्रो ऽन्धो नग्नश्चासि तत् त्वया नावगम्यते।
ⅩⅧत्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा।
ⅩⅨयेष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।
ⅩⅩपश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।
ⅩⅪअपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।
ⅩⅫयस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानम् आत्मनः कथां शृणोतु।