Ⅰअनन्तरं मयि निरीक्षमाणे मेषशावकेन तासां सप्तमुद्राणाम् एका मुद्रा मुक्ता ततस्तेषां चतुर्णाम् एकस्य प्राणिन आगत्य पश्येतिवाचको मेघगर्जनतुल्यो रवो मया श्रुतः।
Ⅱततः परम् एकः शुक्लाश्चो दृष्टः, तदारूढो जनो धनु र्धारयति तस्मै च किरीटमेकम् अदायि ततः स प्रभवन् प्रभविष्यंश्च निर्गतवान्।
Ⅲअपरं द्वितीयमुद्रायां तेन मोचितायां द्वितीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता।
Ⅳततो ऽरुणवर्णो ऽपर एको ऽश्वो निर्गतवान् तदारोहिणि पृथिवीतः शान्त्यपहरणस्य लोकानां मध्ये परस्परं प्रतिघातोत्पादनस्य च सामर्थ्यं समर्पितम्, एको बृहत्खङ्गो ऽपि तस्मा अदायि।
Ⅴअपरं तृतीयमुद्रायां तन मोचितायां तृतीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता, ततः कालवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो हस्ते तुला तिष्ठति
Ⅵअनन्तरं प्राणिचतुष्टयस्य मध्याद् वागियं श्रुता गोधूमानामेकः सेटको मुद्रापादैकमूल्यः, यवानाञ्च सेटकत्रयं मुद्रापादैकमूल्यं तैलद्राक्षारसाश्च त्वया मा हिंसितव्याः।
Ⅶअनन्तरं चतुर्थमुद्रायां तेन मोचितायां चतुर्थस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता।
Ⅷततः पाण्डुरवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो नाम मृत्युरिति परलोकश्च तम् अनुचरति खङ्गेन दुर्भिक्षेण महामार्य्या वन्यपशुभिश्च लोकानां बधाय पृथिव्याश्चतुर्थांशस्याधिपत्यं तस्मा अदायि।
Ⅸअनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त।
Ⅹत उच्चैरिदं गदन्ति, हे पवित्र सत्यमय प्रभो अस्माकं रक्तपाते पृथिवीनिवासिभि र्विवदितुं तस्य फल दातुञ्च कति कालं विलम्बसे?
Ⅺततस्तेषाम् एकैकस्मै शुभ्रः परिच्छदो ऽदायि वागियञ्चाकथ्यत यूयमल्पकालम् अर्थतो युष्माकं ये सहादासा भ्रातरो यूयमिव घानिष्यन्ते तेषां संख्या यावत् सम्पूर्णतां न गच्छति तावद् विरमत।
Ⅻअनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्
ⅩⅢगगनस्थताराश्च प्रबलवायुना चालिताद् उडुम्बरवृक्षात् निपातितान्यपक्कफलानीव भूतले न्यपतन्।
ⅩⅣआकाशमण्डलञ्च सङ्कुच्यमानग्रन्थइवान्तर्धानम् अगमत् गिरय उपद्वीपाश्च सर्व्वे स्थानान्तरं चालिताः
ⅩⅤपृथिवीस्था भूपाला महाल्लोकाः सहस्त्रपतयो धनिनः पराक्रमिणश्च लोका दासा मुक्ताश्च सर्व्वे ऽपि गुहासु गिरिस्थशैलेषु च स्वान् प्राच्छादयन्।
ⅩⅥते च गिरीन् शैलांश्च वदन्ति यूयम् अस्मदुपरि पतित्वा सिंहासनोपविष्टजनस्य दृष्टितो मेषशावकस्य कोपाच्चास्मान् गोपायत;
ⅩⅦयतस्तस्य क्रोधस्य महादिनम् उपस्थितं कः स्थातुं शक्नोति?