ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत।
ततः प्रथमो दूतो गत्वा स्वकंसे यद्यद् अविद्यत तत् पृथिव्याम् अस्रावयत् तस्मात् पशोः कलङ्कधारिणां तत्प्रतिमापूजकानां मानवानां शरीरेषु व्यथाजनका दुष्टव्रणा अभवन्।
ततः परं द्वितीयो दूतः स्वकंसे यद्यद् अविद्यत तत् समुद्रे ऽस्रावयत् तेन स कुणपस्थशोणितरूप्यभवत् समुद्रे स्थिताश्च सर्व्वे प्राणिनो मृत्युं गताः।
अपरं तृतीयो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं नदीषु जलप्रस्रवणेषु चास्रावयत् ततस्तानि रक्तमयान्यभवन्। अपरं तोयानाम् अधिपस्य दूतस्य वागियं मया श्रुता।
वर्त्तमानश्च भूतश्च भविष्यंश्च परमेश्वरः। त्वमेव न्याय्यकारी यद् एतादृक् त्वं व्यचारयः।
भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो ऽदास्तत्पानं तेषु युज्यते॥
अनन्तरं वेदीतो भाषमाणस्य कस्यचिद् अयं रवो मया श्रुतः, हे परश्वर सत्यं तत् हे सर्व्वशक्तिमन् प्रभो। सत्या न्याय्याश्च सर्व्वा हि विचाराज्ञास्त्वदीयकाः॥
अनन्तरं चतुर्थो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं सूर्य्ये ऽस्रावयत् तस्मै च वह्निना मानवान् दग्धुं सामर्थ्यम् अदायि।
तेन मनुष्या महातापेन तापितास्तेषां दण्डानाम् आधिपत्यविशिष्टस्येश्वरस्य नामानिन्दन् तत्प्रशंसार्थञ्च मनःपरिवर्त्तनं नाकुर्व्वन्।
ततः परं पञ्चमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं पशोः सिंहासने ऽस्रावयत् तेन तस्य राष्ट्रं तिमिराच्छन्नम् अभवत् लोकाश्च वेदनाकारणात् स्वरसना अदंदश्यत।
स्वकीयव्यथाव्रणकारणाच्च स्वर्गस्थम् अनिन्दन् स्वक्रियाभ्यश्च मनांसि न परावर्त्तयन्।
ततः परं षष्ठो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं फराताख्यो महानदे ऽस्रावयत् तेन सूर्य्योदयदिश आगमिष्यतां राज्ञां मार्गसुगमार्थं तस्य तोयानि पर्य्यशुष्यन्।
ⅩⅢअनन्तरं नागस्य वदनात् पशो र्वदनात् मिथ्याभविष्यद्वादिनश्च वदनात् निर्गच्छन्तस्त्रयो ऽशुचय आत्मानो मया दृष्टास्ते मण्डूकाकाराः।
ⅩⅣत आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज्ञाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति।
ⅩⅤअपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते सङ्गृहीताः।
ⅩⅥपश्याहं चैरवद् आगच्छामि यो जनः प्रबुद्धस्तिष्ठति यथा च नग्नः सन् न पर्य्यटति तस्य लज्जा च यथा दृश्या न भवति तथा स्ववासांसि रक्षति स धन्यः।
ⅩⅦततः परं सप्तमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वम् आकाशे ऽस्रावयत् तेन स्वर्गीयमन्दिरमध्यस्थसिंहासनात् महारवो ऽयं निर्गतः समाप्तिरभवदिति।
ⅩⅧतदनन्तरं तडितो रवाः स्तनितानि चाभवन्, यस्मिन् काले च पृथिव्यां मनुष्याः सृष्टास्तम् आरभ्य यादृङ्महाभूमिकम्पः कदापि नाभवत् तादृग् भूकम्पो ऽभवत्।
ⅩⅨतदानीं महानगरी त्रिखण्डा जाता भिन्नजातीयानां नगराणि च न्यपतन् महाबाबिल् चेश्वरेण स्वकीयप्रचण्डकोपमदिरापात्रदानार्थं संस्मृता।
ⅩⅩद्वीपाश्च पलायिता गिरयश्चान्तहिताः।
ⅩⅪगगनमण्डलाच्च मनुष्याणाम् उपर्य्येकैकद्रोणपरिमितशिलानां महावृष्टिरभवत् तच्छिलावृष्टेः क्लेशात् मनुष्या ईश्वरम् अनिन्दम् यतस्तज्जातः क्लेशो ऽतीव महान्।