Ⅰअनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।
Ⅱनगर्य्या मार्गमध्ये तस्या नद्याः पार्श्वयोरमृतवृक्षा विद्यन्ते तेषां द्वादशफलानि भवन्ति, एकैको वृक्षः प्रतिमासं स्वफलं फलति तद्वृक्षपत्राणि चान्यजातीयानाम् आरोग्यजनकानि।
Ⅲअपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।
Ⅳतस्य वदनदर्शनं प्राप्स्यन्ति भालेषु च तस्य नाम लिखितं भविष्यति।
Ⅴतदानीं रात्रिः पुन र्न भविष्यति यतः प्रभुः परमेश्वरस्तान् दीपयिष्यति ते चानन्तकालं यावद् राजत्वं करिष्यन्ते।
Ⅵअनन्तरं स माम् अवदत्, वाक्यानीमानि विश्वास्यानि सत्यानि च, अचिराद् यै र्भवितव्यं तानि स्वदासान् ज्ञापयितुं पवित्रभविष्यद्वादिनां प्रभुः परमेश्वरः स्वदूतं प्रेषितवान्।
Ⅶपश्याहं तूर्णम् आगच्छामि, एतद्ग्रन्थस्य भविष्यद्वाक्यानि यः पालयति स एव धन्यः।
Ⅷयोहनहम् एतानि श्रुतवान् दृष्टवांश्चास्मि श्रुत्वा दृष्ट्वा च तद्दर्शकदूतस्य प्रणामार्थं तच्चरणयोरन्तिके ऽपतं।
Ⅸततः स माम् अवदत् सावधानो भव मैवं कृरु, त्वया तव भ्रातृभि र्भविष्यद्वादिभिरेतद्ग्रन्थस्थवाक्यपालनकारिभिश्च सहदासो ऽहं। त्वम् ईश्वरं प्रणम।
Ⅹस पुन र्माम् अवदत्, एतद्ग्रन्थस्थभविष्यद्वाक्यानि त्वया न मुद्राङ्कयितव्यानि यतः समयो निकटवर्त्ती।
Ⅺअधर्म्माचार इतः परमप्यधर्म्मम् आचरतु, अमेध्याचार इतः परमप्यमेध्यम् आचरतु धर्म्माचार इतः परमपि धर्म्मम् आचरतु पवित्राचारश्चेतः परमपि पवित्रम् आचरतु।
Ⅻपश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।
ⅩⅢअहं कः क्षश्च प्रथमः शेषश्चादिरन्तश्च।
ⅩⅣअमुतवृक्षस्याधिकारप्राप्त्यर्थं द्वारै र्नगरप्रवेशार्थञ्च ये तस्याज्ञाः पालयन्ति त एव धन्याः।
ⅩⅤकुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।
ⅩⅥमण्डलीषु युष्मभ्यमेतेषां साक्ष्यदानार्थं यीशुरहं स्वदूतं प्रेषितवान्, अहमेव दायूदो मूलं वंशश्च, अहं तेजोमयप्रभातीयतारास्वरूपः।
ⅩⅦआत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।
ⅩⅧयः कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्यानि शृणोति तस्मा अहं साक्ष्यमिदं ददामि, कश्चिद् यद्यपरं किमप्येतेषु योजयति तर्हीश्वरोग्रन्थेऽस्मिन् लिखितान् दण्डान् तस्मिन्नेव योजयिष्यति।
ⅩⅨयदि च कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्येभ्यः किमप्यपहरति तर्हीश्वरो ग्रन्थे ऽस्मिन् लिखितात् जीवनवृक्षात् पवित्रनगराच्च तस्यांशमपहरिष्यति।
ⅩⅩएतत् साक्ष्यं यो ददाति स एव वक्ति सत्यम् अहं तूर्णम् आगच्छामि। तथास्तु। प्रभो यीशोे, आगम्यतां भवता।
ⅩⅪअस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहः सर्व्वेषु युष्मासु वर्त्ततां। आमेन्।