Ⅰयूयं ममाज्ञानतां क्षणं यावत् सोढुम् अर्हथ, अतः सा युष्माभिः सह्यतां।
Ⅱईश्वरे ममासक्तत्वाद् अहं युष्मानधि तपे यस्मात् सतीं कन्यामिव युष्मान् एकस्मिन् वरेऽर्थतः ख्रीष्टे समर्पयितुम् अहं वाग्दानम् अकार्षं।
Ⅲकिन्तु सर्पेण स्वखलतया यद्वद् हवा वञ्चयाञ्चके तद्वत् ख्रीष्टं प्रति सतीत्वाद् युष्माकं भ्रंशः सम्भविष्यतीति बिभेमि।
Ⅳअस्माभिरनाख्यापितोऽपरः कश्चिद् यीशु र्यदि केनचिद् आगन्तुकेनाख्याप्यते युष्माभिः प्रागलब्ध आत्मा वा यदि लभ्यते प्रागगृहीतः सुसंवादो वा यदि गृह्यते तर्हि मन्ये यूयं सम्यक् सहिष्यध्वे।
Ⅴकिन्तु मुख्येभ्यः प्रेरितेभ्योऽहं केनचित् प्रकारेण न्यूनो नास्मीति बुध्ये।
Ⅵमम वाक्पटुताया न्यूनत्वे सत्यपि ज्ञानस्य न्यूनत्वं नास्ति किन्तु सर्व्वविषये वयं युष्मद्गोचरे प्रकाशामहे।
Ⅶयुष्माकम् उन्नत्यै मया नम्रतां स्वीकृत्येश्वरस्य सुसंवादो विना वेतनं युष्माकं मध्ये यद् अघोष्यत तेन मया किं पापम् अकारि?
Ⅷयुष्माकं सेवनायाहम् अन्यसमितिभ्यो भृति गृह्लन् धनमपहृतवान्,
Ⅸयदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।
Ⅹख्रीष्टस्य सत्यता यदि मयि तिष्ठति तर्हि ममैषा श्लाघा निखिलाखायादेशे केनापि न रोत्स्यते।
Ⅺएतस्य कारणं किं? युष्मासु मम प्रेम नास्त्येतत् किं तत्कारणं? तद् ईश्वरो वेत्ति।
Ⅻये छिद्रमन्विष्यन्ति ते यत् किमपि छिद्रं न लभन्ते तदर्थमेव तत् कर्म्म मया क्रियते कारिष्यते च तस्मात् ते येन श्लाघन्ते तेनास्माकं समाना भविष्यन्ति।
ⅩⅢतादृशा भाक्तप्रेरिताः प्रवञ्चकाः कारवो भूत्वा ख्रीष्टस्य प्रेरितानां वेशं धारयन्ति।
ⅩⅣतच्चाश्चर्य्यं नहि; यतः स्वयं शयतानपि तेजस्विदूतस्य वेशं धारयति,
ⅩⅤततस्तस्य परिचारका अपि धर्म्मपरिचारकाणां वेशं धारयन्तीत्यद्भुतं नहि; किन्तु तेषां कर्म्माणि यादृशानि फलान्यपि तादृशानि भविष्यन्ति।
ⅩⅥअहं पुन र्वदामि कोऽपि मां निर्ब्बोधं न मन्यतां किञ्च यद्यपि निर्ब्बोधो भवेयं तथापि यूयं निर्ब्बोधमिव मामनुगृह्य क्षणैकं यावत् ममात्मश्लाघाम् अनुजानीत।
ⅩⅦएतस्याः श्लाघाया निमित्तं मया यत् कथितव्यं तत् प्रभुनादिष्टेनेव कथ्यते तन्नहि किन्तु निर्ब्बोधेनेव।
ⅩⅧअपरे बहवः शारीरिकश्लाघां कुर्व्वते तस्माद् अहमपि श्लाघिष्ये।
ⅩⅨबुद्धिमन्तो यूयं सुखेन निर्ब्बोधानाम् आचारं सहध्वे।
ⅩⅩकोऽपि यदि युष्मान् दासान् करोति यदि वा युष्माकं सर्व्वस्वं ग्रसति यदि वा युष्मान् हरति यदि वात्माभिमानी भवति यदि वा युष्माकं कपोलम् आहन्ति तर्हि तदपि यूयं सहध्वे।
ⅩⅪदौर्ब्बल्याद् युष्माभिरवमानिता इव वयं भाषामहे, किन्त्वपरस्य कस्यचिद् येन प्रगल्भता जायते तेन ममापि प्रगल्भता जायत इति निर्ब्बोधेनेव मया वक्तव्यं।
ⅩⅫते किम् इब्रिलोकाः? अहमपीब्री। ते किम् इस्रायेलीयाः? अहमपीस्रायेलीयः। ते किम् इब्राहीमो वंशाः? अहमपीब्राहीमो वंशः।
ⅩⅩⅢते किं ख्रीष्टस्य परिचारकाः? अहं तेभ्योऽपि तस्य महापरिचारकः; किन्तु निर्ब्बोध इव भाषे, तेभ्योऽप्यहं बहुपरिश्रमे बहुप्रहारे बहुवारं कारायां बहुवारं प्राणनाशसंशये च पतितवान्।
ⅩⅩⅣयिहूदीयैरहं पञ्चकृत्व ऊनचत्वारिंशत्प्रहारैराहतस्त्रिर्वेत्राघातम् एककृत्वः प्रस्तराघातञ्च प्रप्तवान्।
ⅩⅩⅤवारत्रयं पोतभञ्जनेन क्लिष्टोऽहम् अगाधसलिले दिनमेकं रात्रिमेकाञ्च यापितवान्।
ⅩⅩⅥबहुवारं यात्राभि र्नदीनां सङ्कटै र्दस्यूनां सङ्कटैः स्वजातीयानां सङ्कटै र्भिन्नजातीयानां सङ्कटै र्नगरस्य सङ्कटै र्मरुभूमेः सङ्कटै सागरस्य सङ्कटै र्भाक्तभ्रातृणां सङ्कटैश्च
ⅩⅩⅦपरिश्रमक्लेशाभ्यां वारं वारं जागरणेन क्षुधातृष्णाभ्यां बहुवारं निराहारेण शीतनग्नताभ्याञ्चाहं कालं यापितवान्।
ⅩⅩⅧतादृशं नैमित्तिकं दुःखं विनाहं प्रतिदिनम् आकुलो भवामि सर्व्वासां समितीनां चिन्ता च मयि वर्त्तते।
ⅩⅩⅨयेनाहं न दुर्ब्बलीभवामि तादृशं दौर्ब्बल्यं कः पाप्नोति?
ⅩⅩⅩयदि मया श्लाघितव्यं तर्हि स्वदुर्ब्बलतामधि श्लाघिष्ये।
ⅩⅩⅪमया मृषावाक्यं न कथ्यत इति नित्यं प्रशंसनीयोऽस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो जानाति।
ⅩⅩⅫदम्मेषकनगरेऽरिताराजस्य कार्य्याध्यक्षो मां धर्त्तुम् इच्छन् यदा सैन्यैस्तद् दम्मेषकनगरम् अरक्षयत्
ⅩⅩⅩⅢतदाहं लोकैः पिटकमध्ये प्राचीरगवाक्षेणावरोहितस्तस्य करात् त्राणं प्रापं।