यीशुः स्वयं नामज्जयत् केवलं तस्य शिष्या अमज्जयत् किन्तु योहनोऽधिकशिष्यान् स करोति मज्जयति च,
फिरूशिन इमां वार्त्तामशृण्वन् इति प्रभुरवगत्य
यिहूदीयदेशं विहाय पुन र्गालीलम् आगत्।
ततः शोमिरोणप्रदेशस्य मद्येन तेन गन्तव्ये सति
याकूब् निजपुत्राय यूषफे यां भूमिम् अददात् तत्समीपस्थायि शोमिरोणप्रदेशस्य सुखार् नाम्ना विख्यातस्य नगरस्य सन्निधावुपास्थात्।
तत्र याकूबः प्रहिरासीत्; तदा द्वितीययामवेलायां जातायां स मार्गे श्रमापन्नस्तस्य प्रहेः पार्श्वे उपाविशत्।
एतर्हि काचित् शोमिरोणीया योषित् तोयोत्तोलनार्थम् तत्रागमत्
तदा शिष्याः खाद्यद्रव्याणि क्रेतुं नगरम् अगच्छन्।
यीशुः शोमिरोणीयां तां योषितम् व्याहार्षीत् मह्यं किञ्चित् पानीयं पातुं देहि। किन्तु शोमिरोणीयैः साकं यिहूदीयलोका न व्यवाहरन् तस्माद्धेतोः साकथयत् शोमिरोणीया योषितदहं त्वं यिहूदीयोसि कथं मत्तः पानीयं पातुम् इच्छसि?
ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्।
तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि?
योस्मभ्यम् इममन्धूं ददौ, यस्य च परिजना गोमेषादयश्च सर्व्वेऽस्य प्रहेः पानीयं पपुरेतादृशो योस्माकं पूर्व्वपुरुषो याकूब् तस्मादपि भवान् महान् किं?
ⅩⅢततो यीशुरकथयद् इदं पानीयं सः पिवति स पुनस्तृषार्त्तो भविष्यति,
ⅩⅣकिन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति।
ⅩⅤतदा सा वनिताकथयत् हे महेच्छ तर्हि मम पुनः पीपासा यथा न जायते तोयोत्तोलनाय यथात्रागमनं न भवति च तदर्थं मह्यं तत्तोयं देही।
ⅩⅥततो यीशूरवदद्याहि तव पतिमाहूय स्थानेऽत्रागच्छ।
ⅩⅦसा वामावदत् मम पतिर्नास्ति। यीशुरवदत् मम पतिर्नास्तीति वाक्यं भद्रमवोचः।
ⅩⅧयतस्तव पञ्च पतयोभवन् अधुना तु त्वया सार्द्धं यस्तिष्ठति स तव भर्त्ता न वाक्यमिदं सत्यमवादिः।
ⅩⅨतदा सा महिला गदितवति हे महेच्छ भवान् एको भविष्यद्वादीति बुद्धं मया।
ⅩⅩअस्माकं पितृलोका एतस्मिन् शिलोच्चयेऽभजन्त, किन्तु भवद्भिरुच्यते यिरूशालम् नगरे भजनयोग्यं स्थानमास्ते।
ⅩⅪयीशुरवोचत् हे योषित् मम वाक्ये विश्वसिहि यदा यूयं केवलशैलेऽस्मिन् वा यिरूशालम् नगरे पितुर्भजनं न करिष्यध्वे काल एतादृश आयाति।
ⅩⅫयूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते।
ⅩⅩⅢकिन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते।
ⅩⅩⅣईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।
ⅩⅩⅤतदा सा महिलावादीत् ख्रीष्टनाम्ना विख्यातोऽभिषिक्तः पुरुष आगमिष्यतीति जानामि स च सर्व्वाः कथा अस्मान् ज्ञापयिष्यति।
ⅩⅩⅥततो यीशुरवदत् त्वया सार्द्धं कथनं करोमि योऽहम् अहमेव स पुरुषः।
ⅩⅩⅦएतस्मिन् समये शिष्या आगत्य तथा स्त्रिया सार्द्धं तस्य कथोपकथने महाश्चर्य्यम् अमन्यन्त तथापि भवान् किमिच्छति? यद्वा किमर्थम् एतया सार्द्धं कथां कथयति? इति कोपि नापृच्छत्।
ⅩⅩⅧततः परं सा नारी कलशं स्थापयित्वा नगरमध्यं गत्वा लोकेभ्योकथायद्
ⅩⅩⅨअहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?
ⅩⅩⅩततस्ते नगराद् बहिरागत्य तातस्य समीपम् आयन्।
ⅩⅩⅪएतर्हि शिष्याः साधयित्वा तं व्याहार्षुः हे गुरो भवान् किञ्चिद् भूक्तां।
ⅩⅩⅫततः सोवदद् युष्माभिर्यन्न ज्ञायते तादृशं भक्ष्यं ममास्ते।
ⅩⅩⅩⅢतदा शिष्याः परस्परं प्रष्टुम् आरम्भन्त, किमस्मै कोपि किमपि भक्ष्यमानीय दत्तवान्?
ⅩⅩⅩⅣयीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।
ⅩⅩⅩⅤमासचतुष्टये जाते शस्यकर्त्तनसमयो भविष्यतीति वाक्यं युष्माभिः किं नोद्यते? किन्त्वहं वदामि, शिर उत्तोल्य क्षेत्राणि प्रति निरीक्ष्य पश्यत, इदानीं कर्त्तनयोग्यानि शुक्लवर्णान्यभवन्।
ⅩⅩⅩⅥयश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः।
ⅩⅩⅩⅦइत्थं सति वपत्येकश्छिनत्यन्य इति वचनं सिद्ध्यति।
ⅩⅩⅩⅧयत्र यूयं न पर्य्यश्राम्यत तादृशं शस्यं छेत्तुं युष्मान् प्रैरयम् अन्ये जनाःपर्य्यश्राम्यन् यूयं तेषां श्रगस्य फलम् अलभध्वम्।
ⅩⅩⅩⅨयस्मिन् काले यद्यत् कर्म्माकार्षं तत्सर्व्वं स मह्यम् अकथयत् तस्या वनिताया इदं साक्ष्यवाक्यं श्रुत्वा तन्नगरनिवासिनो बहवः शोमिरोणीयलोका व्यश्वसन्।
ⅩⅬतथा च तस्यान्तिके समुपस्थाय स्वेषां सन्निधौ कतिचिद् दिनानि स्थातुं तस्मिन् विनयम् अकुर्व्वान तस्मात् स दिनद्वयं तत्स्थाने न्यवष्टत्
ⅩⅬⅠततस्तस्योपदेशेन बहवोऽपरे विश्वस्य
ⅩⅬⅡतां योषामवदन् केवलं तव वाक्येन प्रतीम इति न, किन्तु स जगतोऽभिषिक्तस्त्रातेति तस्य कथां श्रुत्वा वयं स्वयमेवाज्ञासमहि।
ⅩⅬⅢस्वदेशे भविष्यद्वक्तुः सत्कारो नास्तीति यद्यपि यीशुः प्रमाणं दत्वाकथयत्
ⅩⅬⅣतथापि दिवसद्वयात् परं स तस्मात् स्थानाद् गालीलं गतवान्।
ⅩⅬⅤअनन्तरं ये गालीली लियलोका उत्सवे गता उत्सवसमये यिरूशलम् नगरे तस्य सर्व्वाः क्रिया अपश्यन् ते गालीलम् आगतं तम् आगृह्लन्।
ⅩⅬⅥततः परम् यीशु र्यस्मिन् कान्नानगरे जलं द्राक्षारसम् आकरोत् तत् स्थानं पुनरगात्। तस्मिन्नेव समये कस्यचिद् राजसभास्तारस्य पुत्रः कफर्नाहूमपुरी रोगग्रस्त आसीत्।
ⅩⅬⅦस येहूदीयदेशाद् यीशो र्गालीलागमनवार्त्तां निशम्य तस्य समीपं गत्वा प्रार्थ्य व्याहृतवान् मम पुत्रस्य प्रायेण काल आसन्नः भवान् आगत्य तं स्वस्थं करोतु।
ⅩⅬⅧतदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।
ⅩⅬⅨततः स सभासदवदत् हे महेच्छ मम पुत्रे न मृते भवानागच्छतु।
यीशुस्तमवदद् गच्छ तव पुत्रोऽजीवीत् तदा यीशुनोक्तवाक्ये स विश्वस्य गतवान्।
ⅬⅠगमनकाले मार्गमध्ये दासास्तं साक्षात्प्राप्यावदन् भवतः पुत्रोऽजीवीत्।
ⅬⅡततः कं कालमारभ्य रोगप्रतीकारारम्भो जाता इति पृष्टे तैरुक्तं ह्यः सार्द्धदण्डद्वयाधिकद्वितीययामे तस्य ज्वरत्यागोऽभवत्।
ⅬⅢतदा यीशुस्तस्मिन् क्षणे प्रोक्तवान् तव पुत्रोऽजीवीत् पिता तद्बुद्ध्वा सपरिवारो व्यश्वसीत्।
ⅬⅣयिहूदीयदेशाद् आगत्य गालीलि यीशुरेतद् द्वितीयम् आश्चर्य्यकर्म्माकरोत्।