अनन्तरं यीशु र्विश्रामवारे श्स्यमध्येन गच्छति, तदा तच्छिष्या बुभुक्षिताः सन्तः श्स्यमञ्जरीश्छत्वा छित्वा खादितुमारभन्त।
तद् विलोक्य फिरूशिनो यीशुं जगदुः, पश्य विश्रामवारे यत् कर्म्माकर्त्तव्यं तदेव तव शिष्याः कुर्व्वन्ति।
स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?
ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्सङ्गिमनुजानाञ्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः।
अन्यच्च विश्रामवारे मध्येमन्दिरं विश्रामवारीयं नियमं लङ्वन्तोपि याजका निर्दोषा भवन्ति, शास्त्रमध्ये किमिदमपि युष्माभि र्न पठितं?
युष्मानहं वदामि, अत्र स्थाने मन्दिरादपि गरीयान् एक आस्ते।
किन्तु दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि। एतद्वचनस्यार्थं यदि युयम् अज्ञासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट।
अन्यच्च मनुजसुतो विश्रामवारस्यापि पतिरास्ते।
अनन्तरं स तत्स्थानात् प्रस्थाय तेषां भजनभवनं प्रविष्टवान्, तदानीम् एकः शुष्ककरामयवान् उपस्थितवान्।
ततो यीशुम् अपवदितुं मानुषाः पप्रच्छुः, विश्रामवारे निरामयत्वं करणीयं न वा?
तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क आस्ते?
अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।
ⅩⅢअनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थोऽभवत्।
ⅩⅣतदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।
ⅩⅤततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज्ञापयत्,
ⅩⅥयूयं मां न परिचाययत।
ⅩⅦतस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते।
ⅩⅧकेनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।
ⅩⅨव्यवस्था चलिता यावत् नहि तेन करिष्यते। तावत् नलो विदीर्णोऽपि भंक्ष्यते नहि तेन च। तथा सधूमवर्त्तिञ्च न स निर्व्वापयिष्यते।
ⅩⅩप्रत्याशाञ्च करिष्यन्ति तन्नाम्नि भिन्नदेशजाः।
ⅩⅪयान्येतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तान्यासन्, तानि सफलान्यभवन्।
ⅩⅫअनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सोऽन्धो मूको द्रष्टुं वक्तुञ्चारब्धवान्।
ⅩⅩⅢअनेन सर्व्वे विस्मिताः कथयाञ्चक्रुः, एषः किं दायूदः सन्तानो नहि?
ⅩⅩⅣकिन्तु फिरूशिनस्तत् श्रुत्वा गदितवन्तः, बाल्सिबूब्नाम्नो भूतराजस्य साहाय्यं विना नायं भूतान् त्याजयति।
ⅩⅩⅤतदानीं यीशुस्तेषाम् इति मानसं विज्ञाय तान् अवदत् किञ्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च किञ्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
ⅩⅩⅥतद्वत् शयतानो यदि शयतानं बहिः कृत्वा स्वविपक्षात् पृथक् पृथक् भवति, तर्हि तस्य राज्यं केन प्रकारेण स्थास्यति?
ⅩⅩⅦअहञ्च यदि बाल्सिबूबा भूतान् त्याजयामि, तर्हि युष्माकं सन्तानाः केन भूतान् त्याजयन्ति? तस्माद् युष्माकम् एतद्विचारयितारस्त एव भविष्यन्ति।
ⅩⅩⅧकिन्तवहं यदीश्वरात्मना भूतान् त्याजयामि, तर्हीश्वरस्य राज्यं युष्माकं सन्निधिमागतवत्।
ⅩⅩⅨअन्यञ्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।
ⅩⅩⅩयः कश्चित् मम स्वपक्षीयो नहि स विपक्षीय आस्ते, यश्च मया साकं न संगृह्लाति, स विकिरति।
ⅩⅩⅪअतएव युष्मानहं वदामि, मनुजानां सर्व्वप्रकारपापानां निन्दायाश्च मर्षणं भवितुं शक्नोति, किन्तु पवित्रस्यात्मनो विरुद्धनिन्दाया मर्षणं भवितुं न शक्नोति।
ⅩⅩⅫयो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं शक्नोति।
ⅩⅩⅩⅢपादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
ⅩⅩⅩⅣरे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।
ⅩⅩⅩⅤतेन साधुर्मानवोऽन्तःकरणरूपात् साधुभाण्डागारात् साधु द्रव्यं निर्गमयति, असाधुर्मानुषस्त्वसाधुभाण्डागाराद् असाधुवस्तूनि निर्गमयति।
ⅩⅩⅩⅥकिन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं,
ⅩⅩⅩⅦयतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे।
ⅩⅩⅩⅧतदानीं कतिपया उपाध्यायाः फिरूशिनश्च जगदुः, हे गुरो वयं भवत्तः किञ्चन लक्ष्म दिदृक्षामः।
ⅩⅩⅩⅨतदा स प्रत्युक्तवान्, दुष्टो व्यभिचारी च वंशो लक्ष्म मृगयते, किन्तु भविष्यद्वादिनो यूनसो लक्ष्म विहायान्यत् किमपि लक्ष्म ते न प्रदर्शयिष्यन्ते।
ⅩⅬयतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।
ⅩⅬⅠअपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तयाञ्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।
ⅩⅬⅡपुनश्च दक्षिणदेशीया राज्ञी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज्ञी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनोऽत्र आस्ते।
ⅩⅬⅢअपरं मनुजाद् बहिर्गतो ऽपवित्रभूतः शुष्कस्थानेन गत्वा विश्रामं गवेषयति, किन्तु तदलभमानः स वक्ति, यस्मा; निकेतनाद् आगमं, तदेव वेश्म पकावृत्य यामि।
ⅩⅬⅣपश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभितञ्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् सङ्गिनः करोति।
ⅩⅬⅤततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते।
ⅩⅬⅥमानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं काञ्चित् कथां कथयितुं वाञ्छन्तो बहिरेव स्थितवन्तः।
ⅩⅬⅦततः कश्चित् तस्मै कथितवान्, पश्य तव जननी सहजाश्च त्वया साकं काञ्चन कथां कथयितुं कामयमाना बहिस्तिष्ठन्ति।
ⅩⅬⅧकिन्तु स तं प्रत्यवदत्, मम का जननी? के वा मम सहजाः?
ⅩⅬⅨपश्चात् शिष्यान् प्रति करं प्रसार्य्य कथितवान्, पश्य मम जननी मम सहजाश्चैते;
यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते, सएव मम भ्राता भगिनी जननी च।