Ⅰयीशुरेतान् प्रस्तावान् समाप्य शिष्यानूचे,
Ⅱयुष्माभि र्ज्ञातं दिनद्वयात् परं निस्तारमह उपस्थास्यति, तत्र मनुजसुतः क्रुशेन हन्तुं परकरेषु समर्पिष्यते।
Ⅲततः परं प्रधानयाजकाध्यापकप्राञ्चः कियफानाम्नो महायाजकस्याट्टालिकायां मिलित्वा
Ⅳकेनोपायेन यीशुं धृत्वा हन्तुं शक्नुयुरिति मन्त्रयाञ्चक्रुः।
Ⅴकिन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।
Ⅵततो बैथनियापुरे शिमोनाख्यस्य कुष्ठिनो वेश्मनि यीशौ तिष्ठति
Ⅶकाचन योषा श्वेतोपलभाजनेन महार्घ्यं सुगन्धि तैलमानीय भोजनायोपविशतस्तस्य शिरोभ्यषेचत्।
Ⅷकिन्तु तदालोक्य तच्छिष्यैः कुपितैरुक्तं, कुत इत्थमपव्ययते?
Ⅸचेदिदं व्यक्रेष्यत, तर्हि भूरिमूल्यं प्राप्य दरिद्रेभ्यो व्यतारिष्यत।
Ⅹयीशुना तदवगत्य ते समुदिताः, योषामेनां कुतो दुःखिनीं कुरुथ, सा मां प्रति साधु कर्म्माकार्षीत्।
Ⅺयुष्माकमं समीपे दरिद्राः सततमेवासते, किन्तु युष्माकमन्तिकेहं नासे सततं।
Ⅻसा मम कायोपरि सुगन्धितैलं सिक्त्वा मम श्मशानदानकर्म्माकार्षीत्।
ⅩⅢअतोहं युष्मान् तथ्यं वदामि सर्व्वस्मिन् जगति यत्र यत्रैष सुसमाचारः प्रचारिष्यते, तत्र तत्रैतस्या नार्य्याः स्मरणार्थम् कर्म्मेदं प्रचारिष्यते।
ⅩⅣततो द्वादशशिष्याणाम् ईष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्,
ⅩⅤयदि युष्माकं करेषु यीशुं समर्पयामि, तर्हि किं दास्यथ? तदानीं ते तस्मै त्रिंशन्मुद्रा दातुं स्थिरीकृतवन्तः।
ⅩⅥस तदारभ्य तं परकरेषु समर्पयितुं सुयोगं चेष्टितवान्।
ⅩⅦअनन्तरं किण्वशून्यपूपपर्व्वणः प्रथमेह्नि शिष्या यीशुम् उपगत्य पप्रच्छुः भवत्कृते कुत्र वयं निस्तारमहभोज्यम् आयोजयिष्यामः? भवतः केच्छा?
ⅩⅧतदा स गदितवान्, मध्येनगरममुकपुंसः समीपं व्रजित्वा वदत, गुरु र्गदितवान्, मत्कालः सविधः, सह शिष्यैस्त्वदालये निस्तारमहभोज्यं भोक्ष्ये।
ⅩⅨतदा शिष्या यीशोस्तादृशनिदेशानुरूपकर्म्म विधाय तत्र निस्तारमहभोज्यमासादयामासुः।
ⅩⅩततः सन्ध्यायां सत्यां द्वादशभिः शिष्यैः साकं स न्यविशत्।
ⅩⅪअपरं भुञ्जान उक्तवान् युष्मान् तथ्यं वदामि, युष्माकमेको मां परकरेषु समर्पयिष्यति।
ⅩⅫतदा तेऽतीव दुःखिता एकैकशो वक्तुमारेभिरे, हे प्रभो, स किमहं?
ⅩⅩⅢततः स जगाद, मया साकं यो जनो भोजनपात्रे करं संक्षिपति, स एव मां परकरेषु समर्पयिष्यति।
ⅩⅩⅣमनुजसुतमधि यादृशं लिखितमास्ते, तदनुरूपा तद्गति र्भविष्यति; किन्तु येन पुंसा स परकरेषु समर्पयिष्यते, हा हा चेत् स नाजनिष्यत, तदा तस्य क्षेममभविष्यत्।
ⅩⅩⅤतदा यिहूदानामा यो जनस्तं परकरेषु समर्पयिष्यति, स उक्तवान्, हे गुरो, स किमहं? ततः स प्रत्युक्तवान्, त्वया सत्यं गदितम्।
ⅩⅩⅥअनन्तरं तेषामशनकाले यीशुः पूपमादायेश्वरीयगुणाननूद्य भंक्त्वा शिष्येभ्यः प्रदाय जगाद, मद्वपुःस्वरूपमिमं गृहीत्वा खादत।
ⅩⅩⅦपश्चात् स कंसं गृह्लन् ईश्वरीयगुणाननूद्य तेभ्यः प्रदाय कथितवान्, सर्व्वै र्युष्माभिरनेन पातव्यं,
ⅩⅩⅧयस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।
ⅩⅩⅨअपरमहं नूत्नगोस्तनीरसं न पास्यामि, तावत् गोस्तनीफलरसं पुनः कदापि न पास्यामि।
ⅩⅩⅩपश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।
ⅩⅩⅪतदानीं यीशुस्तानवोचत्, अस्यां रजन्यामहं युष्माकं सर्व्वेषां विघ्नरूपो भविष्यामि, यतो लिखितमास्ते, "मेषाणां रक्षको यस्तं प्रहरिष्याम्यहं ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति"॥
ⅩⅩⅫकिन्तु श्मशानात् समुत्थाय युष्माकमग्रेऽहं गालीलं गमिष्यामि।
ⅩⅩⅩⅢपितरस्तं प्रोवाच, भवांश्चेत् सर्व्वेषां विघ्नरूपो भवति, तथापि मम न भविष्यति।
ⅩⅩⅩⅣततो यीशुना स उक्तः, तुभ्यमहं तथ्यं कथयामि, यामिन्यामस्यां चरणायुधस्य रवात् पूर्व्वं त्वं मां त्रि र्नाङ्गीकरिष्यसि।
ⅩⅩⅩⅤततः पितर उदितवान्, यद्यपि त्वया समं मर्त्तव्यं, तथापि कदापि त्वां न नाङ्गीकरिष्यामि; तथैव सर्व्वे शिष्याश्चोचुः।
ⅩⅩⅩⅥअनन्तरं यीशुः शिष्यैः साकं गेत्शिमानीनामकं स्थानं प्रस्थाय तेभ्यः कथितवान्, अदः स्थानं गत्वा यावदहं प्रार्थयिष्ये तावद् यूयमत्रोपविशत।
ⅩⅩⅩⅦपश्चात् स पितरं सिवदियसुतौ च सङ्गिनः कृत्वा गतवान्, शोकाकुलोऽतीव व्यथितश्च बभूव।
ⅩⅩⅩⅧतानवादीच्च मृतियातनेव मत्प्राणानां यातना जायते, यूयमत्र मया सार्द्धं जागृत।
ⅩⅩⅩⅨततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।
ⅩⅬततः स शिष्यानुपेत्य तान् निद्रतो निरीक्ष्य पितराय कथयामास, यूयं मया साकं दण्डमेकमपि जागरितुं नाशन्कुत?
ⅩⅬⅠपरीक्षायां न पतितुं जागृत प्रार्थयध्वञ्च; आत्मा समुद्यतोस्ति, किन्तु वपु र्दुर्ब्बलं।
ⅩⅬⅡस द्वितीयवारं प्रार्थयाञ्चक्रे, हे मत्तात, न पीते यदि कंसमिदं मत्तो दूरं यातुं न शक्नोति, तर्हि त्वदिच्छावद् भवतु।
ⅩⅬⅢस पुनरेत्य तान् निद्रतो ददर्श, यतस्तेषां नेत्राणि निद्रया पूर्णान्यासन्।
ⅩⅬⅣपश्चात् स तान् विहाय व्रजित्वा तृतीयवारं पूर्व्ववत् कथयन् प्रार्थितवान्।
ⅩⅬⅤततः शिष्यानुपागत्य गदितवान्, साम्प्रतं शयानाः किं विश्राम्यथ? पश्यत, समय उपास्थात्, मनुजसुतः पापिनां करेषु समर्प्यते।
ⅩⅬⅥउत्तिष्ठत, वयं यामः, यो मां परकरेषु मसर्पयिष्यति, पश्यत, स समीपमायाति।
ⅩⅬⅦएतत्कथाकथनकाले द्वादशशिष्याणामेको यिहूदानामको मुख्ययाजकलोकप्राचीनैः प्रहितान् असिधारियष्टिधारिणो मनुजान् गृहीत्वा तत्समीपमुपतस्थौ।
ⅩⅬⅧअसौ परकरेष्वर्पयिता पूर्व्वं तान् इत्थं सङ्केतयामास, यमहं चुम्बिष्ये, सोऽसौ मनुजः,सएव युष्माभि र्धार्य्यतां।
ⅩⅬⅨतदा स सपदि यीशुमुपागत्य हे गुरो, प्रणमामीत्युक्त्वा तं चुचुम्बे।
Ⅼतदा यीशुस्तमुवाच, हे मित्रं किमर्थमागतोसि? तदा तैरागत्य यीशुराक्रम्य दघ्रे।
ⅬⅠततो यीशोः सङ्गिनामेकः करं प्रसार्य्य कोषादसिं बहिष्कृत्य महायाजकस्य दासमेकमाहत्य तस्य कर्णं चिच्छेद।
ⅬⅡततो यीशुस्तं जगाद, खड्गं स्वस्थानेे निधेहि यतो ये ये जना असिं धारयन्ति, तएवासिना विनश्यन्ति।
ⅬⅢअपरं पिता यथा मदन्तिकं स्वर्गीयदूतानां द्वादशवाहिनीतोऽधिकं प्रहिणुयात् मया तमुद्दिश्येदानीमेव तथा प्रार्थयितुं न शक्यते, त्वया किमित्थं ज्ञायते?
ⅬⅣतथा सतीत्थं घटिष्यते धर्म्मपुस्तकस्य यदिदं वाक्यं तत् कथं सिध्येत्?
ⅬⅤतदानीं यीशु र्जननिवहं जगाद, यूयं खड्गयष्टीन् आदाय मां किं चौरं धर्त्तुमायाताः? अहं प्रत्यहं युष्माभिः साकमुपविश्य समुपादिशं, तदा मां नाधरत;
ⅬⅥकिन्तु भविष्यद्वादिनां वाक्यानां संसिद्धये सर्व्वमेतदभूत्।तदा सर्व्वे शिष्यास्तं विहाय पलायन्त।
ⅬⅦअनन्तरं ते मनुजा यीशुं धृत्वा यत्राध्यापकप्राञ्चः परिषदं कुर्व्वन्त उपाविशन् तत्र कियफानाामकमहायाजकस्यान्तिकं निन्युः।
ⅬⅧकिन्तु शेषे किं भविष्यतीति वेत्तुं पितरो दूरे तत्पश्चाद् व्रजित्वा महायाजकस्याट्टालिकां प्रविश्य दासैः सहित उपाविशत्।
ⅬⅨतदानीं प्रधानयाजकप्राचीनमन्त्रिणः सर्व्वे यीशुं हन्तुं मृषासाक्ष्यम् अलिप्सन्त,
ⅬⅩकिन्तु न लेभिरे। अनेकेषु मृषासाक्षिष्वागतेष्वपि तन्न प्रापुः।
ⅬⅪशेषे द्वौ मृषासाक्षिणावागत्य जगदतुः, पुमानयमकथयत्, अहमीश्वरमन्दिरं भंक्त्वा दिनत्रयमध्ये तन्निर्म्मातुं शक्नोमि।
ⅬⅫतदा महायाजक उत्थाय यीशुम् अवादीत्। त्वं किमपि न प्रतिवदसि? त्वामधि किमेते साक्ष्यं वदन्ति?
ⅬⅩⅢकिन्तु यीशु र्मौनीभूय तस्यौ। ततो महायाजक उक्तवान्, त्वाम् अमरेश्वरनाम्ना शपयामि, त्वमीश्वरस्य पुत्रोऽभिषिक्तो भवसि नवेति वद।
ⅬⅩⅣयीशुः प्रत्यवदत्, त्वं सत्यमुक्तवान्; अहं युष्मान् तथ्यं वदामि, इतःपरं मनुजसुतं सर्व्वशक्तिमतो दक्षिणपार्श्वे स्थातुं गगणस्थं जलधरानारुह्यायान्तं वीक्षध्वे।
ⅬⅩⅤतदा महायाजको निजवसनं छित्त्वा जगाद, एष ईश्वरं निन्दितवान्, अस्माकमपरसाक्ष्येण किं प्रयोजनं? पश्यत, यूयमेवास्यास्याद् ईश्वरनिन्दां श्रुतवन्तः,
ⅬⅩⅥयुष्माभिः किं विविच्यते? ते प्रत्यूचुः, वधार्होऽयं।
ⅬⅩⅦततो लोकैस्तदास्ये निष्ठीवितं केचित् प्रतलमाहत्य केचिच्च चपेटमाहत्य बभाषिरे,
ⅬⅩⅧहे ख्रीष्ट त्वां कश्चपेटमाहतवान्? इति गणयित्वा वदास्मान्।
ⅬⅩⅨपितरो बहिरङ्गन उपविशति, तदानीमेका दासी तमुपागत्य बभाषे, त्वं गालीलीययीशोः सहचरएकः।
ⅬⅩⅩकिन्तु स सर्व्वेषां समक्षम् अनङ्गीकृत्यावादीत्, त्वया यदुच्यते, तदर्थमहं न वेद्मि।
ⅬⅩⅪतदा तस्मिन् बहिर्द्वारं गते ऽन्या दासी तं निरीक्ष्य तत्रत्यजनानवदत्, अयमपि नासरतीययीशुना सार्द्धम् आसीत्।
ⅬⅩⅫततः स शपथेन पुनरनङ्गीकृत्य कथितवान्, तं नरं न परिचिनोमि।
ⅬⅩⅩⅢक्षणात् परं तिष्ठन्तो जना एत्य पितरम् अवदन्, त्वमवश्यं तेषामेक इति त्वदुच्चारणमेव द्योतयति।
ⅬⅩⅩⅣकिन्तु सोऽभिशप्य कथितवान्, तं जनं नाहं परिचिनोमि, तदा सपदि कुक्कुटो रुराव।
ⅬⅩⅩⅤकुक्कुटरवात् प्राक् त्वं मां त्रिरपाह्नोष्यसे, यैषा वाग् यीशुनावादि तां पितरः संस्मृत्य बहिरित्वा खेदाद् भृशं चक्रन्द।