Ⅰपवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात्
Ⅱकठोरमनसां कापट्याद् अनृतवादिनां विवाहनिषेधकानां भक्ष्यविशेषनिषेधकानाञ्च
Ⅲभूतस्वरूपाणां शिक्षायां भ्रमकात्मनां वाक्येषु च मनांसि निवेश्य धर्म्माद् भ्रंशिष्यन्ते। तानि तु भक्ष्याणि विश्वासिनां स्वीकृतसत्यधर्म्माणाञ्च धन्यवादसहिताय भोगायेश्वरेण ससृजिरे।
Ⅳयत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,
Ⅴयत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति।
Ⅵएतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।
Ⅶयान्युपाख्यानानि दुर्भावानि वृद्धयोषितामेव योग्यानि च तानि त्वया विसृज्यन्ताम् ईश्वरभक्तये यत्नः क्रियताञ्च।
Ⅷयतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति।
Ⅸवाक्यमेतद् विश्वसनीयं सर्व्वै र्ग्रहणीयञ्च वयञ्च तदर्थमेव श्राम्यामो निन्दां भुंज्महे च।
Ⅹयतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः।
Ⅺत्वम् एतानि वाक्यानि प्रचारय समुपदिश च।
Ⅻअल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।
ⅩⅢयावन्नाहम् आगमिष्यामि तावत् त्व पाठे चेतयने उपदेशे च मनो निधत्स्व।
ⅩⅣप्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।
ⅩⅤएतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थञ्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां।
ⅩⅥस्वस्मिन् उपदेशे च सावधानो भूत्वावतिष्ठस्व तत् कृत्वा त्वयात्मपरित्राणं श्रोतृणाञ्च परित्राणं साधयिष्यते।