Ⅰअनन्तरं स्वर्गाद् अवरोहन् अपर एको महाबलो दूतो मया दृष्टः, स परिहितमेघस्तस्य शिरश्च मेघधनुषा भूषितं मुखमण्डलञ्च सूर्य्यतुल्यं चरणौ च वह्निस्तम्भसमौ।
Ⅱस स्वकरेण विस्तीर्णमेकं क्षूद्रग्रन्थं धारयति, दक्षिणचरणेन समुद्रे वामचरणेन च स्थले तिष्ठति।
Ⅲस सिंहगर्जनवद् उच्चैःस्वरेण न्यनदत् निनादे कृते सप्त स्तनितानि स्वकीयान् स्वनान् प्राकाशयन्।
Ⅳतैः सप्त स्तनितै र्वाक्ये कथिते ऽहं तत् लेखितुम् उद्यत आसं किन्तु स्वर्गाद् वागियं मया श्रुता सप्त स्तनितै र्यद् यद् उक्तं तत् मुद्रयाङ्कय मा लिख।
Ⅴअपरं समुद्रमेदिन्योस्तिष्ठन् यो दूतो मया दृष्टः स गगनं प्रति स्वदक्षिणकरमुत्थाप्य
Ⅵअपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाव्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्ण क्षुद्रग्रन्थं गृहाण, तेन मया दूतसमीपं गत्वा कथितं ग्रन्थो ऽसौ दीयतां।
Ⅶकिन्तु तूरीं वादिष्यतः सप्तमदूतस्य तूरीवादनसमय ईश्वरस्य गुप्ता मन्त्रणा तस्य दासान् भविष्यद्वादिनः प्रति तेन सुसंवादे यथा प्रकाशिता तथैव सिद्धा भविष्यति।
Ⅷअपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाष्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्णं क्षुद्रग्रन्थं गृहाण,
Ⅸतेन मया दूतसमीपं गत्वा कथितं ग्रन्थो ऽसौ दीयतां। स माम् अवदत् तं गृहीत्वा गिल, तवोदरे स तिक्तरसो भविष्यति किन्तु मुखे मधुवत् स्वादु र्भविष्यति।
Ⅹतेन मया दूतस्य कराद् ग्रन्थो गृहीतो गिलितश्च। स तु मम मुखे मधुवत् स्वादुरासीत् किन्त्वदनात् परं ममोदरस्तिक्ततां गतः।
Ⅺततः स माम् अवदत् बहून् जातिवंशभाषावदिराजान् अधि त्वया पुन र्भविष्यद्वाक्यं वक्तव्यं।