Ⅰयूयं प्रेमाचरणे प्रयतध्वम् आत्मिकान् दायानपि विशेषत ईश्वरीयादेशकथनसामर्थ्यं प्राप्तुं चेष्टध्वं।
Ⅱयो जनः परभाषां भाषते स मानुषान् न सम्भाषते किन्त्वीश्वरमेव यतः केनापि किमपि न बुध्यते स चात्मना निगूढवाक्यानि कथयति;
Ⅲकिन्तु यो जन ईश्वरीयादेशं कथयति स परेषां निष्ठायै हितोपदेशाय सान्त्वनायै च भाषते।
Ⅳपरभाषावाद्यात्मन एव निष्ठां जनयति किन्त्वीश्वरीयादेशवादी समिते र्निष्ठां जनयति।
Ⅴयुष्माकं सर्व्वेषां परभाषाभाषणम् इच्छाम्यहं किन्त्वीश्वरीयादेशकथनम् अधिकमपीच्छामि। यतः समिते र्निष्ठायै येन स्ववाक्यानाम् अर्थो न क्रियते तस्मात् परभाषावादित ईश्वरीयादेशवादी श्रेयान्।
Ⅵहे भ्रातरः, इदानीं मया यदि युष्मत्समीपं गम्यते तर्हीश्वरीयदर्शनस्य ज्ञानस्य वेश्वरीयादेशस्य वा शिक्षाया वा वाक्यानि न भाषित्वा परभाषां भाषमाणेन मया यूयं किमुपकारिष्यध्वे?
Ⅶअपरं वंशीवल्लक्यादिषु निष्प्राणिषु वाद्ययन्त्रेषु वादितेषु यदि क्कणा न विशिष्यन्ते तर्हि किं वाद्यं किं वा गानं भवति तत् केन बोद्धुं शक्यते?
Ⅷअपरं रणतूर्य्या निस्वणो यद्यव्यक्तो भवेत् तर्हि युद्धाय कः सज्जिष्यते?
Ⅸतद्वत् जिह्वाभि र्यदि सुगम्या वाक् युष्माभि र्न गद्येत तर्हि यद् गद्यते तत् केन भोत्स्यते? वस्तुतो यूयं दिगालापिन इव भविष्यथ।
Ⅹजगति कतिप्रकारा उक्तयो विद्यन्ते? तासामेकापि निरर्थिका नहि;
Ⅺकिन्तूक्तेरर्थो यदि मया न बुध्यते तर्ह्यहं वक्त्रा म्लेच्छ इव मंस्ये वक्तापि मया म्लेच्छ इव मंस्यते।
Ⅻतस्माद् आत्मिकदायलिप्सवो यूयं समिते र्निष्ठार्थं प्राप्तबहुवरा भवितुं यतध्वं,
ⅩⅢअतएव परभाषावादी यद् अर्थकरोऽपि भवेत् तत् प्रार्थयतां।
ⅩⅣयद्यहं परभाषया प्रर्थनां कुर्य्यां तर्हि मदीय आत्मा प्रार्थयते, किन्तु मम बुद्धि र्निष्फला तिष्ठति।
ⅩⅤइत्यनेन किं करणीयं? अहम् आत्मना प्रार्थयिष्ये बुद्ध्यापि प्रार्थयिष्ये; अपरं आत्मना गास्यामि बुद्ध्यापि गास्यामि।
ⅩⅥत्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते?
ⅩⅦत्वं सम्यग् ईश्वरं धन्यं वदसीति सत्यं तथापि तत्र परस्य निष्ठा न भवति।
ⅩⅧयुष्माकं सर्व्वेभ्योऽहं परभाषाभाषणे समर्थोऽस्मीति कारणाद् ईश्वरं धन्यं वदामि;
ⅩⅨतथापि समितौ परोपदेशार्थं मया कथितानि पञ्च वाक्यानि वरं न च लक्षं परभाषीयानि वाक्यानि।
ⅩⅩहे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत।
ⅩⅪशास्त्र इदं लिखितमास्ते, यथा, इत्यवोचत् परेशोऽहम् आभाषिष्य इमान् जनान्। भाषाभिः परकीयाभि र्वक्त्रैश्च परदेशिभिः। तथा मया कृतेऽपीमे न ग्रहीष्यन्ति मद्वचः॥
ⅩⅫअतएव तत् परभाषाभाषणं अविश्चासिनः प्रति चिह्नरूपं भवति न च विश्वासिनः प्रति; किन्त्वीश्वरीयादेशकथनं नाविश्वासिनः प्रति तद् विश्वासिनः प्रत्येव।
ⅩⅩⅢसमितिभुक्तेषु सर्व्वेषु एकस्मिन् स्थाने मिलित्वा परभाषां भाषमाणेषु यदि ज्ञानाकाङ्क्षिणोऽविश्वासिनो वा तत्रागच्छेयुस्तर्हि युष्मान् उन्मत्तान् किं न वदिष्यन्ति?
ⅩⅩⅣकिन्तु सर्व्वेष्वीश्वरीयादेशं प्रकाशयत्सु यद्यविश्वासी ज्ञानाकाङ्क्षी वा कश्चित् तत्रागच्छति तर्हि सर्व्वैरेव तस्य पापज्ञानं परीक्षा च जायते,
ⅩⅩⅤततस्तस्यान्तःकरणस्य गुप्तकल्पनासु व्यक्तीभूतासु सोऽधोमुखः पतन् ईश्वरमाराध्य युष्मन्मध्य ईश्वरो विद्यते इति सत्यं कथामेतां कथयिष्यति।
ⅩⅩⅥहे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।
ⅩⅩⅦयदि कश्चिद् भाषान्तरं विवक्षति तर्ह्येकस्मिन् दिने द्विजनेन त्रिजनेन वा परभााषा कथ्यतां तदधिकैर्न कथ्यतां तैरपि पर्य्यायानुसारात् कथ्यतां, एकेन च तदर्थो बोध्यतां।
ⅩⅩⅧकिन्त्वर्थाभिधायकः कोऽपि यदि न विद्यते तर्हि स समितौ वाचंयमः स्थित्वेश्वरायात्मने च कथां कथयतु।
ⅩⅩⅨअपरं द्वौ त्रयो वेश्वरीयादेशवक्तारः स्वं स्वमादेशं कथयन्तु तदन्ये च तं विचारयन्तु।
ⅩⅩⅩकिन्तु तत्रापरेण केनचित् जनेनेश्वरीयादेशे लब्धे प्रथमेन कथनात् निवर्त्तितव्यं।
ⅩⅩⅪसर्व्वे यत् शिक्षां सान्त्वनाञ्च लभन्ते तदर्थं यूयं सर्व्वे पर्य्यायेणेश्वरीयादेशं कथयितुं शक्नुथ।
ⅩⅩⅫईश्वरीयादेशवक्तृणां मनांसि तेषाम् अधीनानि भवन्ति।
ⅩⅩⅩⅢयत ईश्वरः कुशासनजनको नहि सुशासनजनक एवेति पवित्रलोकानां सर्व्वसमितिषु प्रकाशते।
ⅩⅩⅩⅣअपरञ्च युष्माकं वनिताः समितिषु तूष्णीम्भूतास्तिष्ठन्तु यतः शास्त्रलिखितेन विधिना ताः कथाप्रचारणात् निवारितास्ताभि र्निघ्राभि र्भवितव्यं।
ⅩⅩⅩⅤअतस्ता यदि किमपि जिज्ञासन्ते तर्हि गेहेषु पतीन् पृच्छन्तु यतः समितिमध्ये योषितां कथाकथनं निन्दनीयं।
ⅩⅩⅩⅥऐश्वरं वचः किं युष्मत्तो निरगमत? केवलं युष्मान् वा तत् किम् उपागतं?
ⅩⅩⅩⅦयः कश्चिद् आत्मानम् ईश्वरीयादेशवक्तारम् आत्मनाविष्टं वा मन्यते स युष्मान् प्रति मया यद् यत् लिख्यते तत्प्रभुनाज्ञापितम् ईत्युररी करोतु।
ⅩⅩⅩⅧकिन्तु यः कश्चित् अज्ञो भवति सोऽज्ञ एव तिष्ठतु।
ⅩⅩⅩⅨअतएव हे भ्रातरः, यूयम् ईश्वरीयादेशकथनसामर्थ्यं लब्धुं यतध्वं परभाषाभाषणमपि युष्माभि र्न निवार्य्यतां।
ⅩⅬसर्व्वकर्म्माणि च विध्यनुसारतः सुपरिपाट्या क्रियन्तां।