अपरञ्च युष्माभि र्मां प्रति यत् पत्रमलेखि तस्योत्तरमेतत्, योषितोऽस्पर्शनं मनुजस्य वरं;
किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।
भार्य्यायै भर्त्रा यद्यद् वितरणीयं तद् वितीर्य्यतां तद्वद् भर्त्रेऽपि भार्य्यया वितरणीयं वितीर्य्यतां।
भार्य्यायाः स्वदेहे स्वत्वं नास्ति भर्त्तुरेव, तद्वद् भर्त्तुरपि स्वदेहे स्वत्वं नास्ति भार्य्याया एव।
उपोषणप्रार्थनयोः सेवनार्थम् एकमन्त्रणानां युष्माकं कियत्कालं यावद् या पृथक्स्थिति र्भवति तदन्यो विच्छेदो युष्मन्मध्ये न भवतु, ततः परम् इन्द्रियाणाम् अधैर्य्यात् शयतान् यद् युष्मान् परीक्षां न नयेत् तदर्थं पुनरेकत्र मिलत।
एतद् आदेशतो नहि किन्त्वनुज्ञात एव मया कथ्यते,
यतो ममावस्थेव सर्व्वमानवानामवस्था भवत्विति मम वाञ्छा किन्त्वीश्वराद् एकेनैको वरोऽन्येन चान्यो वर इत्थमेकैकेन स्वकीयवरो लब्धः।
अपरम् अकृतविवाहान् विधवाश्च प्रति ममैतन्निवेदनं ममेव तेषामवस्थिति र्भद्रा;
किञ्च यदि तैरिन्द्रियाणि नियन्तुं न शक्यन्ते तर्हि विवाहः क्रियतां यतः कामदहनाद् व्यूढत्वं भद्रं।
ये च कृतविवाहास्ते मया नहि प्रभुनैवैतद् आज्ञाप्यन्ते।
भार्य्या भर्त्तृतः पृथक् न भवतु। यदि वा पृथग्भूता स्यात् तर्हि निर्विवाहा तिष्ठतु स्वीयपतिना वा सन्दधातु भर्त्तापि भार्य्यां न त्यजतु।
इतरान् जनान् प्रति प्रभु र्न ब्रवीति किन्त्वहं ब्रवीमि; कस्यचिद् भ्रातुर्योषिद् अविश्वासिनी सत्यपि यदि तेन सहवासे तुष्यति तर्हि सा तेन न त्यज्यतां।
ⅩⅢतद्वत् कस्याश्चिद् योषितः पतिरविश्वासी सन्नपि यदि तया सहवासे तुष्यति तर्हि स तया न त्यज्यतां।
ⅩⅣयतोऽविश्वासी भर्त्ता भार्य्यया पवित्रीभूतः, तद्वदविश्वासिनी भार्य्या भर्त्रा पवित्रीभूता; नोचेद् युष्माकमपत्यान्यशुचीन्यभविष्यन् किन्त्वधुना तानि पवित्राणि सन्ति।
ⅩⅤअविश्वासी जनो यदि वा पृथग् भवति तर्हि पृथग् भवतु; एतेन भ्राता भगिनी वा न निबध्यते तथापि वयमीश्वरेण शान्तये समाहूताः।
ⅩⅥहे नारि तव भर्त्तुः परित्राणं त्वत्तो भविष्यति न वेति त्वया किं ज्ञायते? हे नर तव जायायाः परित्राणं त्वत्तेा भविष्यति न वेति त्वया किं ज्ञायते?
ⅩⅦएकैको जनः परमेश्वराल्लब्धं यद् भजते यस्याञ्चावस्थायाम् ईश्वरेणाह्वायि तदनुसारेणैवाचरतु तदहं सर्व्वसमाजस्थान् आदिशामि।
ⅩⅧछिन्नत्वग् भृत्वा य आहूतः स प्रकृष्टत्वक् न भवतु, तद्वद् अछिन्नत्वग् भूत्वा य आहूतः स छिन्नत्वक् न भवतु।
ⅩⅨत्वक्छेदः सारो नहि तद्वदत्वक्छेदोऽपि सारो नहि किन्त्वीश्वरस्याज्ञानां पालनमेव।
ⅩⅩयो जनो यस्यामवस्थायामाह्वायि स तस्यामेवावतिष्ठतां।
ⅩⅪदासः सन् त्वं किमाहूतोऽसि? तन्मा चिन्तय, तथाच यदि स्वतन्त्रो भवितुं शक्नुयास्तर्हि तदेव वृणु।
ⅩⅫयतः प्रभुनाहूतो यो दासः स प्रभो र्मोचितजनः। तद्वद् तेनाहूतः स्वतन्त्रो जनोऽपि ख्रीष्टस्य दास एव।
ⅩⅩⅢयूयं मूल्येन क्रीता अतो हेतो र्मानवानां दासा मा भवत।
ⅩⅩⅣहे भ्रातरो यस्यामवस्थायां यस्याह्वानमभवत् तया स ईश्वरस्य साक्षात् तिष्ठतु।
ⅩⅩⅤअपरम् अकृतविवाहान् जनान् प्रति प्रभोः कोऽप्यादेशो मया न लब्धः किन्तु प्रभोरनुकम्पया विश्वास्यो भूतोऽहं यद् भद्रं मन्ये तद् वदामि।
ⅩⅩⅥवर्त्तमानात् क्लेशसमयात् मनुष्यस्यानूढत्वं भद्रमिति मया बुध्यते।
ⅩⅩⅦत्वं किं योषिति निबद्धोऽसि तर्हि मोचनं प्राप्तुं मा यतस्व। किं वा योषितो मुक्तोऽसि? तर्हि जायां मा गवेषय।
ⅩⅩⅧविवाहं कुर्व्वता त्वया किमपि नापाराध्यते तद्वद् व्यूह्यमानया युवत्यापि किमपि नापराध्यते तथाच तादृशौ द्वौ जनौ शारीरिकं क्लेशं लप्स्येते किन्तु युष्मान् प्रति मम करुणा विद्यते।
ⅩⅩⅨहे भ्रातरोऽहमिदं ब्रवीमि, इतः परं समयोऽतीव संक्षिप्तः,
ⅩⅩⅩअतः कृतदारैरकृतदारैरिव रुदद्भिश्चारुदद्भिरिव सानन्दैश्च निरानन्दैरिव क्रेतृभिश्चाभागिभिरिवाचरितव्यं
ⅩⅩⅪये च संसारे चरन्ति तै र्नातिचरितव्यं यत इहलेाकस्य कौतुको विचलति।
ⅩⅩⅫकिन्तु यूयं यन्निश्चिन्ता भवेतेति मम वाञ्छा। अकृतविवाहो जनो यथा प्रभुं परितोषयेत् तथा प्रभुं चिन्तयति,
ⅩⅩⅩⅢकिन्तु कृतविवाहो जनो यथा भार्य्यां परितोषयेत् तथा संसारं चिन्तयति।
ⅩⅩⅩⅣतद्वद् ऊढयोषितो ऽनूढा विशिष्यते। यानूढा सा यथा कायमनसोः पवित्रा भवेत् तथा प्रभुं चिन्तयति या चोढा सा यथा भर्त्तारं परितोषयेत् तथा संसारं चिन्तयति।
ⅩⅩⅩⅤअहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते।
ⅩⅩⅩⅥकस्यचित् कन्यायां यौवनप्राप्तायां यदि स तस्या अनूढत्वं निन्दनीयं विवाहश्च साधयितव्य इति मन्यते तर्हि यथाभिलाषं करोतु, एतेन किमपि नापरात्स्यति विवाहः क्रियतां।
ⅩⅩⅩⅦकिन्तु दुःखेनाक्लिष्टः कश्चित् पिता यदि स्थिरमनोगतः स्वमनोऽभिलाषसाधने समर्थश्च स्यात् मम कन्या मया रक्षितव्येति मनसि निश्चिनोति च तर्हि स भद्रं कर्म्म करोति।
ⅩⅩⅩⅧअतो यो विवाहं करोति स भद्रं कर्म्म करोति यश्च विवाहं न करोति स भद्रतरं कर्म्म करोति।
ⅩⅩⅩⅨयावत्कालं पति र्जीवति तावद् भार्य्या व्यवस्थया निबद्धा तिष्ठति किन्तु पत्यौ महानिद्रां गते सा मुक्तीभूय यमभिलषति तेन सह तस्या विवाहो भवितुं शक्नोति, किन्त्वेतत् केवलं प्रभुभक्तानां मध्ये।
ⅩⅬतथाच सा यदि निष्पतिका तिष्ठति तर्हि तस्याः क्षेमं भविष्यतीति मम भावः। अपरम् ईश्वरस्यात्मा ममाप्यन्त र्विद्यत इति मया बुध्यते।