Ⅰनिस्तारोत्सवात् पूर्व्वं दिनषट्के स्थिते यीशु र्यं प्रमीतम् इलियासरं श्मशानाद् उदस्थापरत् तस्य निवासस्थानं बैथनियाग्रामम् आगच्छत्।
Ⅱतत्र तदर्थं रजन्यां भोज्ये कृते मर्था पर्य्यवेषयद् इलियासर् च तस्य सङ्गिभिः सार्द्धं भोजनासन उपाविशत्।
Ⅲतदा मरियम् अर्द्धसेटकं बहुमूल्यं जटामांसीयं तैलम् आनीय यीशोश्चरणयो र्मर्द्दयित्वा निजकेश र्मार्ष्टुम् आरभत; तदा तैलस्य परिमलेन गृहम् आमोदितम् अभवत्।
Ⅳयः शिमोनः पुत्र र्इष्करियोतीयो यिहूदानामा यीशुं परकरेषु समर्पयिष्यति स शिष्यस्तदा कथितवान्,
Ⅴएतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत?
Ⅵस दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।
Ⅶतदा यीशुरकथयद् एनां मा वारय सा मम श्मशानस्थापनदिनार्थं तदरक्षयत्।
Ⅷदरिद्रा युष्माकं सन्निधौ सर्व्वदा तिष्ठन्ति किन्त्वहं सर्व्वदा युष्माकं सन्निधौ न तिष्ठामि।
Ⅸततः परं यीशुस्तत्रास्तीति वार्त्तां श्रुत्वा बहवो यिहूदीयास्तं श्मशानादुत्थापितम् इलियासरञ्च द्रष्टुं तत् स्थानम् आगच्छन।
Ⅹतदा प्रधानयाजकास्तम् इलियासरमपि संहर्त्तुम् अमन्त्रयन् ;
Ⅺयतस्तेन बहवो यिहूदीया गत्वा यीशौ व्यश्वसन्।
Ⅻअनन्तरं यीशु र्यिरूशालम् नगरम् आगच्छतीति वार्त्तां श्रुत्वा परेऽहनि उत्सवागता बहवो लोकाः
ⅩⅢखर्ज्जूरपत्राद्यानीय तं साक्षात् कर्त्तुं बहिरागत्य जय जयेति वाचं प्रोच्चै र्वक्तुम् आरभन्त, इस्रायेलो यो राजा परमेश्वरस्य नाम्नागच्छति स धन्यः।
ⅩⅣतदा "हे सियोनः कन्ये मा भैषीः पश्यायं तव राजा गर्द्दभशावकम् आरुह्यागच्छति"
ⅩⅤइति शास्त्रीयवचनानुसारेण यीशुरेकं युवगर्द्दभं प्राप्य तदुपर्य्यारोहत्।
ⅩⅥअस्याः घटनायास्तात्पर्य्यं शिष्याः प्रथमं नाबुध्यन्त, किन्तु यीशौ महिमानं प्राप्ते सति वाक्यमिदं तस्मिन अकथ्यत लोकाश्च तम्प्रतीत्थम् अकुर्व्वन् इति ते स्मृतवन्तः।
ⅩⅦस इलियासरं श्मशानाद् आगन्तुम् आह्वतवान् श्मशानाञ्च उदस्थापयद् ये ये लोकास्तत्कर्म्य साक्षाद् अपश्यन् ते प्रमाणं दातुम् आरभन्त।
ⅩⅧस एतादृशम् अद्भुतं कर्म्मकरोत् तस्य जनश्रुते र्लोकास्तं साक्षात् कर्त्तुम् आगच्छन्।
ⅩⅨततः फिरूशिनः परस्परं वक्तुम् आरभन्त युष्माकं सर्व्वाश्चेष्टा वृथा जाताः, इति किं यूयं न बुध्यध्वे? पश्यत सर्व्वे लोकास्तस्य पश्चाद्वर्त्तिनोभवन्।
ⅩⅩभजनं कर्त्तुम् उत्सवागतानां लोकानां कतिपया जना अन्यदेशीया आसन् ,
ⅩⅪते गालीलीयबैत्सैदानिवासिनः फिलिपस्य समीपम् आगत्य व्याहरन् हे महेच्छ वयं यीशुं द्रष्टुम् इच्छामः।
ⅩⅫततः फिलिपो गत्वा आन्द्रियम् अवदत् पश्चाद् आन्द्रियफिलिपौ यीशवे वार्त्ताम् अकथयतां।
ⅩⅩⅢतदा यीशुः प्रत्युदितवान् मानवसुतस्य महिमप्राप्तिसमय उपस्थितः।
ⅩⅩⅣअहं युष्मानतियथार्थं वदामि, धान्यबीजं मृत्तिकायां पतित्वा यदि न मृयते तर्ह्येकाकी तिष्ठति किन्तु यदि मृयते तर्हि बहुगुणं फलं फलति।
ⅩⅩⅤयो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति।
ⅩⅩⅥकश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।
ⅩⅩⅦसाम्प्रतं मम प्राणा व्याकुला भवन्ति, तस्माद् हे पितर एतस्मात् समयान् मां रक्ष, इत्यहं किं प्रार्थयिष्ये? किन्त्वहम् एतत्समयार्थम् अवतीर्णवान्।
ⅩⅩⅧहे पित: स्वनाम्नो महिमानं प्रकाशय; तनैव स्वनाम्नो महिमानम् अहं प्राकाशयं पुनरपि प्रकाशयिष्यामि, एषा गगणीया वाणी तस्मिन् समयेऽजायत।
ⅩⅩⅨतच्श्रुत्वा समीपस्थलोकानां केचिद् अवदन् मेघोऽगर्जीत्, केचिद् अवदन् स्वर्गीयदूतोऽनेन सह कथामचकथत्।
ⅩⅩⅩतदा यीशुः प्रत्यवादीत्, मदर्थं शब्दोयं नाभूत् युष्मदर्थमेवाभूत्।
ⅩⅩⅪअधुना जगतोस्य विचार: सम्पत्स्यते, अधुनास्य जगत: पती राज्यात् च्योष्यति।
ⅩⅩⅫयद्यई पृथिव्या ऊर्द्व्वे प्रोत्थापितोस्मि तर्हि सर्व्वान् मानवान् स्वसमीपम् आकर्षिष्यामि।
ⅩⅩⅩⅢकथं तस्य मृति र्भविष्यति, एतद् बोधयितुं स इमां कथाम् अकथयत्।
ⅩⅩⅩⅣतदा लोका अकथयन् सोभिषिक्तः सर्व्वदा तिष्ठतीति व्यवस्थाग्रन्थे श्रुतम् अस्माभिः, तर्हि मनुष्यपुत्रः प्रोत्थापितो भविष्यतीति वाक्यं कथं वदसि? मनुष्यपुत्रोयं कः?
ⅩⅩⅩⅤतदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।
ⅩⅩⅩⅥअतएव यावत्कालं युष्माकं निकटे ज्योतिरास्ते तावत्कालं ज्योतीरूपसन्ताना भवितुं ज्योतिषि विश्वसित; इमां कथां कथयित्वा यीशुः प्रस्थाय तेभ्यः स्वं गुप्तवान्।
ⅩⅩⅩⅦयद्यपि यीशुस्तेषां समक्षम् एतावदाश्चर्य्यकर्म्माणि कृतवान् तथापि ते तस्मिन् न व्यश्वसन्।
ⅩⅩⅩⅧअतएव कः प्रत्येति सुसंवादं परेशास्मत् प्रचारितं? प्रकाशते परेशस्य हस्तः कस्य च सन्निधौ? यिशयियभविष्यद्वादिना यदेतद् वाक्यमुक्तं तत् सफलम् अभवत्।
ⅩⅩⅩⅨते प्रत्येतुं नाशन्कुवन् तस्मिन् यिशयियभविष्यद्वादि पुनरवादीद्,
ⅩⅬयदा, "ते नयनै र्न पश्यन्ति बुद्धिभिश्च न बुध्यन्ते तै र्मनःसु परिवर्त्तितेषु च तानहं यथा स्वस्थान् न करोमि तथा स तेषां लोचनान्यन्धानि कृत्वा तेषामन्तःकरणानि गाढानि करिष्यति।"
ⅩⅬⅠयिशयियो यदा यीशो र्महिमानं विलोक्य तस्मिन् कथामकथयत् तदा भविष्यद्वाक्यम् ईदृशं प्रकाशयत्।
ⅩⅬⅡतथाप्यधिपतिनां बहवस्तस्मिन् प्रत्यायन्। किन्तु फिरूशिनस्तान् भजनगृहाद् दूरीकुर्व्वन्तीति भयात् ते तं न स्वीकृतवन्तः।
ⅩⅬⅢयत ईश्वरस्य प्रशंसातो मानवानां प्रशंसायां तेऽप्रियन्त।
ⅩⅬⅣतदा यीशुरुच्चैःकारम् अकथयद् यो जनो मयि विश्वसिति स केवले मयि विश्वसितीति न, स मत्प्रेरकेऽपि विश्वसिति।
ⅩⅬⅤयो जनो मां पश्यति स मत्प्रेरकमपि पश्यति।
ⅩⅬⅥयो जनो मां प्रत्येति स यथान्धकारे न तिष्ठति तदर्थम् अहं ज्योतिःस्वरूपो भूत्वा जगत्यस्मिन् अवतीर्णवान्।
ⅩⅬⅦमम कथां श्रुत्वा यदि कश्चिन् न विश्वसिति तर्हि तमहं दोषिणं न करोमि, यतो हेतो र्जगतो जनानां दोषान् निश्चितान् कर्त्तुं नागत्य तान् परिचातुम् आगतोस्मि।
ⅩⅬⅧयः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति।
ⅩⅬⅨयतो हेतोरहं स्वतः किमपि न कथयामि, किं किं मया कथयितव्यं किं समुपदेष्टव्यञ्च इति मत्प्रेरयिता पिता मामाज्ञापयत्।
Ⅼतस्य साज्ञा अनन्तायुरित्यहं जानामि, अतएवाहं यत् कथयामि तत् पिता यथाज्ञापयत् तथैव कथयाम्यहम्।