इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।
एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं।
यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व।
पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।
तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।
प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।
अपरं स्वदासे हलं वाहयित्वा वा पशून् चारयित्वा क्षेत्राद् आगते सति तं वदति, एहि भोक्तुमुपविश, युष्माकम् एतादृशः कोस्ति?
वरञ्च पूर्व्वं मम खाद्यमासाद्य यावद् भुञ्जे पिवामि च तावद् बद्धकटिः परिचर पश्चात् त्वमपि भोक्ष्यसे पास्यसि च कथामीदृशीं किं न वक्ष्यति?
तेन दासेन प्रभोराज्ञानुरूपे कर्म्मणि कृते प्रभुः किं तस्मिन् बाधितो जातः? नेत्थं बुध्यते मया।
इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।
स यिरूशालमि यात्रां कुर्व्वन् शोमिरोण्गालील्प्रदेशमध्येन गच्छति,
एतर्हि कुत्रचिद् ग्रामे प्रवेशमात्रे दशकुष्ठिनस्तं साक्षात् कृत्वा
ⅩⅢदूरे तिष्ठनत उच्चै र्वक्तुमारेभिरे, हे प्रभो यीशो दयस्वास्मान्।
ⅩⅣततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
ⅩⅤतदा तेषामेकः स्वं स्वस्थं दृष्ट्वा प्रोच्चैरीश्वरं धन्यं वदन् व्याघुट्यायातो यीशो र्गुणाननुवदन् तच्चरणाधोभूमौ पपात;
ⅩⅥस चासीत् शोमिरोणी।
ⅩⅦतदा यीशुरवदत्, दशजनाः किं न परिष्कृताः? तह्यन्ये नवजनाः कुत्र?
ⅩⅧईश्वरं धन्यं वदन्तम् एनं विदेशिनं विना कोप्यन्यो न प्राप्यत।
ⅩⅨतदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।
ⅩⅩअथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।
ⅩⅪअत एतस्मिन् पश्य तस्मिन् वा पश्य, इति वाक्यं लोका वक्तुं न शक्ष्यन्ति, ईश्वरस्य राजत्वं युष्माकम् अन्तरेवास्ते।
ⅩⅫततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।
ⅩⅩⅢतदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च।
ⅩⅩⅣयतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।
ⅩⅩⅤकिन्तु तत्पूर्व्वं तेनानेकानि दुःखानि भोक्तव्यान्येतद्वर्त्तमानलोकैश्च सोऽवज्ञातव्यः।
ⅩⅩⅥनोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति।
ⅩⅩⅦयावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च;
ⅩⅩⅧइत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त,
ⅩⅩⅨकिन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्
ⅩⅩⅩतद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति।
ⅩⅩⅪतदा यदि कश्चिद् गृहोपरि तिष्ठति तर्हि स गृहमध्यात् किमपि द्रव्यमानेतुम् अवरुह्य नैतु; यश्च क्षेत्रे तिष्ठति सोपि व्याघुट्य नायातु।
ⅩⅩⅫलोटः पत्नीं स्मरत।
ⅩⅩⅩⅢयः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।
ⅩⅩⅩⅣयुष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते।
ⅩⅩⅩⅤस्त्रियौ युगपत् पेषणीं व्यावर्त्तयिष्यतस्तयोरेका धारिष्यते परात्यक्ष्यते।
ⅩⅩⅩⅥपुरुषौ क्षेत्रे स्थास्यतस्तयोरेको धारिष्यते परस्त्यक्ष्यते।
ⅩⅩⅩⅦतदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति।