Ⅰअहं काञ्चिद् कल्पितां कथां न कथयामि, ख्रीष्टस्य साक्षात् सत्यमेव ब्रवीमि पवित्रस्यात्मनः साक्षान् मदीयं मन एतत् साक्ष्यं ददाति।
Ⅱममान्तरतिशयदुःखं निरन्तरं खेदश्च
Ⅲतस्माद् अहं स्वजातीयभ्रातृणां निमित्तात् स्वयं ख्रीष्टाच्छापाक्रान्तो भवितुम् ऐच्छम्।
Ⅳयतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज्ञाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारोऽस्ति।
Ⅴतत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः।
Ⅵईश्वरस्य वाक्यं विफलं जातम् इति नहि यत्कारणाद् इस्रायेलो वंशे ये जातास्ते सर्व्वे वस्तुत इस्रायेलीया न भवन्ति।
Ⅶअपरम् इब्राहीमो वंशे जाता अपि सर्व्वे तस्यैव सन्ताना न भवन्ति किन्तु इस्हाको नाम्ना तव वंशो विख्यातो भविष्यति।
Ⅷअर्थात् शारीरिकसंसर्गात् जाताः सन्ताना यावन्तस्तावन्त एवेश्वरस्य सन्ताना न भवन्ति किन्तु प्रतिश्रवणाद् ये जायन्ते तएवेश्वरवंशो गण्यते।
Ⅸयतस्तत्प्रतिश्रुते र्वाक्यमेतत्, एतादृशे समये ऽहं पुनरागमिष्यामि तत्पूर्व्वं सारायाः पुत्र एको जनिष्यते।
Ⅹअपरमपि वदामि स्वमनोऽभिलाषत ईश्वरेण यन्निरूपितं तत् कर्म्मतो नहि किन्त्वाह्वयितु र्जातमेतद् यथा सिद्ध्यति
Ⅺतदर्थं रिब्कानामिकया योषिता जनैकस्माद् अर्थाद् अस्माकम् इस्हाकः पूर्व्वपुरुषाद् गर्भे धृते तस्याः सन्तानयोः प्रसवात् पूर्व्वं किञ्च तयोः शुभाशुभकर्म्मणः करणात् पूर्व्वं
Ⅻतां प्रतीदं वाक्यम् उक्तं, ज्येष्ठः कनिष्ठं सेविष्यते,
ⅩⅢयथा लिखितम् आस्ते, तथाप्येषावि न प्रीत्वा याकूबि प्रीतवान् अहं।
ⅩⅣतर्हि वयं किं ब्रूमः? ईश्वरः किम् अन्यायकारी? तथा न भवतु।
ⅩⅤयतः स स्वयं मूसाम् अवदत्; अहं यस्मिन् अनुग्रहं चिकीर्षामि तमेवानुगृह्लामि, यञ्च दयितुम् इच्छामि तमेव दये।
ⅩⅥअतएवेच्छता यतमानेन वा मानवेन तन्न साध्यते दयाकारिणेश्वरेणैव साध्यते।
ⅩⅦफिरौणि शास्त्रे लिखति, अहं त्वद्द्वारा मत्पराक्रमं दर्शयितुं सर्व्वपृथिव्यां निजनाम प्रकाशयितुञ्च त्वां स्थापितवान्।
ⅩⅧअतः स यम् अनुग्रहीतुम् इच्छति तमेवानुगृह्लाति, यञ्च निग्रहीतुम् इच्छति तं निगृह्लाति।
ⅩⅨयदि वदसि तर्हि स दोषं कुतो गृह्लाति? तदीयेच्छायाः प्रतिबन्धकत्वं कर्त्तं कस्य सामर्थ्यं विद्यते?
ⅩⅩहे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?
ⅩⅪएकस्मान् मृत्पिण्डाद् उत्कृष्टापकृष्टौ द्विविधौ कलशौ कर्त्तुं किं कुलालस्य सामर्थ्यं नास्ति?
ⅩⅫईश्वरः कोपं प्रकाशयितुं निजशक्तिं ज्ञापयितुञ्चेच्छन् यदि विनाशस्य योग्यानि क्रोधभाजनानि प्रति बहुकालं दीर्घसहिष्णुताम् आश्रयति;
ⅩⅩⅢअपरञ्च विभवप्राप्त्यर्थं पूर्व्वं नियुक्तान्यनुग्रहपात्राणि प्रति निजविभवस्य बाहुल्यं प्रकाशयितुं केवलयिहूदिनां नहि भिन्नदेशिनामपि मध्याद्
ⅩⅩⅣअस्मानिव तान्याह्वयति तत्र तव किं?
ⅩⅩⅤहोशेयग्रन्थे यथा लिखितम् आस्ते, यो लोको मम नासीत् तं वदिष्यामि मदीयकं। या जाति र्मेऽप्रिया चासीत् तां वदिष्याम्यहं प्रियां।
ⅩⅩⅥयूयं मदीयलोका न यत्रेति वाक्यमौच्यत। अमरेशस्य सन्ताना इति ख्यास्यन्ति तत्र ते।
ⅩⅩⅦइस्रायेलीयलोकेषु यिशायियोऽपि वाचमेतां प्राचारयत्, इस्रायेलीयवंशानां या संख्या सा तु निश्चितं। समुद्रसिकतासंख्यासमाना यदि जायते। तथापि केवलं लोकैरल्पैस्त्राणं व्रजिष्यते।
ⅩⅩⅧयतो न्यायेन स्वं कर्म्म परेशः साधयिष्यति। देशे सएव संक्षेपान्निजं कर्म्म करिष्यति।
ⅩⅩⅨयिशायियोऽपरमपि कथयामास, सैन्याध्यक्षपरेशेन चेत् किञ्चिन्नोदशिष्यत। तदा वयं सिदोमेवाभविष्याम विनिश्चितं। यद्वा वयम् अमोराया अगमिष्याम तुल्यतां।
ⅩⅩⅩतर्हि वयं किं वक्ष्यामः? इतरदेशीया लोका अपि पुण्यार्थम् अयतमाना विश्वासेन पुण्यम् अलभन्त;
ⅩⅩⅪकिन्त्विस्रायेल्लोका व्यवस्थापालनेन पुण्यार्थं यतमानास्तन् नालभन्त।
ⅩⅩⅫतस्य किं कारणं? ते विश्वासेन नहि किन्तु व्यवस्थायाः क्रियया चेष्टित्वा तस्मिन् स्खलनजनके पाषाणे पादस्खलनं प्राप्ताः।
ⅩⅩⅩⅢलिखितं यादृशम् आस्ते, पश्य पादस्खलार्थं हि सीयोनि प्रस्तरन्तथा। बाधाकारञ्च पाषाणं परिस्थापितवानहम्। विश्वसिष्यति यस्तत्र स जनो न त्रपिष्यते।