अस्माकं पूर्व्वपुरुष इब्राहीम् कायिकक्रियया किं लब्धवान् एतदधि किं वदिष्यामः?
स यदि निजक्रियाभ्यः सपुण्यो भवेत् तर्हि तस्यात्मश्लाघां कर्त्तुं पन्था भवेदिति सत्यं, किन्त्वीश्वरस्य समीपे नहि।
शास्त्रे किं लिखति? इब्राहीम् ईश्वरे विश्वसनात् स विश्वासस्तस्मै पुण्यार्थं गणितो बभूव।
कर्म्मकारिणो यद् वेतनं तद् अनुग्रहस्य फलं नहि किन्तु तेनोपार्जितं मन्तव्यम्।
किन्तु यः पापिनं सपुण्यीकरोति तस्मिन् विश्वासिनः कर्म्महीनस्य जनस्य यो विश्वासः स पुण्यार्थं गण्यो भवति।
अपरं यं क्रियाहीनम् ईश्वरः सपुण्यीकरोति तस्य धन्यवादं दायूद् वर्णयामास, यथा,
स धन्योऽघानि मृष्टानि यस्यागांस्यावृतानि च।
स च धन्यः परेशेन पापं यस्य न गण्यते।
एष धन्यवादस्त्वक्छेदिनम् अत्वक्छेदिनं वा कं प्रति भवति? इब्राहीमो विश्वासः पुण्यार्थं गणित इति वयं वदामः।
स विश्वासस्तस्य त्वक्छेदित्वावस्थायां किम् अत्वक्छेदित्वावस्थायां कस्मिन् समये पुण्यमिव गणितः? त्वक्छेदित्वावस्थायां नहि किन्त्वत्वक्छेदित्वावस्थायां।
अपरञ्च स यत् सर्व्वेषाम् अत्वक्छेदिनां विश्वासिनाम् आदिपुरुषो भवेत्, ते च पुण्यवत्त्वेन गण्येरन्;
ये च लोकाः केवलं छिन्नत्वचो न सन्तो ऽस्मत्पूर्व्वपुरुष इब्राहीम् अछिन्नत्वक् सन् येन विश्वासमार्गेण गतवान् तेनैव तस्य पादचिह्नेन गच्छन्ति तेषां त्वक्छेदिनामप्यादिपुरुषो भवेत् तदर्थम् अत्वक्छेदिनो मानवस्य विश्वासात् पुण्यम् उत्पद्यत इति प्रमाणस्वरूपं त्वक्छेदचिह्नं स प्राप्नोत्।
ⅩⅢइब्राहीम् जगतोऽधिकारी भविष्यति यैषा प्रतिज्ञा तं तस्य वंशञ्च प्रति पूर्व्वम् अक्रियत सा व्यवस्थामूलिका नहि किन्तु विश्वासजन्यपुण्यमूलिका।
ⅩⅣयतो व्यवस्थावलम्बिनो यद्यधिकारिणो भवन्ति तर्हि विश्वासो विफलो जायते सा प्रतिज्ञापि लुप्तैव।
ⅩⅤअधिकन्तु व्यवस्था कोपं जनयति यतो ऽविद्यमानायां व्यवस्थायाम् आज्ञालङ्घनं न सम्भवति।
ⅩⅥअतएव सा प्रतिज्ञा यद् अनुग्रहस्य फलं भवेत् तदर्थं विश्वासमूलिका यतस्तथात्वे तद्वंशसमुदायं प्रति अर्थतो ये व्यवस्थया तद्वंशसम्भवाः केवलं तान् प्रति नहि किन्तु य इब्राहीमीयविश्वासेन तत्सम्भवास्तानपि प्रति सा प्रतिज्ञा स्थास्नुर्भवति।
ⅩⅦयो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।
ⅩⅧत्वदीयस्तादृशो वंशो जनिष्यते यदिदं वाक्यं प्रतिश्रुतं तदनुसाराद् इब्राहीम् बहुदेशीयलोकानाम् आदिपुरुषो यद् भवति तदर्थं सोऽनपेक्षितव्यमप्यपेक्षमाणो विश्वासं कृतवान्।
ⅩⅨअपरञ्च क्षीणविश्वासो न भूत्वा शतवत्सरवयस्कत्वात् स्वशरीरस्य जरां सारानाम्नः स्वभार्य्याया रजोनिवृत्तिञ्च तृणाय न मेने।
ⅩⅩअपरम् अविश्वासाद् ईश्वरस्य प्रतिज्ञावचने कमपि संशयं न चकार;
ⅩⅪकिन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृढविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार।
ⅩⅫइति हेतोस्तस्य स विश्वासस्तदीयपुण्यमिव गणयाञ्चक्रे।
ⅩⅩⅢपुण्यमिवागण्यत तत् केवलस्य तस्य निमित्तं लिखितं नहि, अस्माकं निमित्तमपि,
ⅩⅩⅣयतोऽस्माकं पापनाशार्थं समर्पितोऽस्माकं पुण्यप्राप्त्यर्थञ्चोत्थापितोऽभवत् योऽस्माकं प्रभु र्यीशुस्तस्योत्थापयितरीश्वरे
ⅩⅩⅤयदि वयं विश्वसामस्तर्ह्यस्माकमपि सएव विश्वासः पुण्यमिव गणयिष्यते।