१ योहनः पत्रं
Ⅰआदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः।
Ⅱस जीवनस्वरूपः प्रकाशत वयञ्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् ज्ञापयामः।
Ⅲअस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।
Ⅳअपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।
Ⅴवयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।
Ⅵवयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।
Ⅶकिन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
Ⅷवयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् वञ्चयामः सत्यमतञ्चास्माकम् अन्तरे न विद्यते।
Ⅸयदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।
Ⅹवयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्यञ्चास्माकम् अन्तरे न विद्यते।