Ⅰयीशुरभिषिक्तस्त्रातेति यः कश्चिद् विश्वासिति स ईश्वरात् जातः; अपरं यः कश्चित् जनयितरि प्रीयते स तस्मात् जाते जने ऽपि प्रीयते।
Ⅱवयम् ईश्वरस्य सन्तानेषु प्रीयामहे तद् अनेन जानीमो यद् ईश्वरे प्रीयामहे तस्याज्ञाः पालयामश्च।
Ⅲयत ईश्वरे यत् प्रेम तत् तदीयाज्ञापालनेनास्माभिः प्रकाशयितव्यं, तस्याज्ञाश्च कठोरा न भवन्ति।
Ⅳयतो यः कश्चिद् ईश्वरात् जातः स संसारं जयति किञ्चास्माकं यो विश्वासः स एवास्माकं संसारजयिजयः।
Ⅴयीशुरीश्वरस्य पुत्र इति यो विश्वसिति तं विना कोऽपरः संसारं जयति?
Ⅵसोऽभिषिक्तस्त्राता यीशुस्तोयरुधिराभ्याम् आगतः केवलं तोयेन नहि किन्तु तोयरुधिराभ्याम्, आत्मा च साक्षी भवति यत आत्मा सत्यतास्वरूपः।
Ⅶयतो हेतोः स्वर्गे पिता वादः पवित्र आत्मा च त्रय इमे साक्षिणः सन्ति, त्रय इमे चैको भवन्ति।
Ⅷतथा पृथिव्याम् आत्मा तोयं रुधिरञ्च त्रीण्येतानि साक्ष्यं ददाति तेषां त्रयाणाम् एकत्वं भवति च।
Ⅸमानवानां साक्ष्यं यद्यस्माभि र्गृह्यते तर्हीश्वरस्य साक्ष्यं तस्मादपि श्रेष्ठं यतः स्वपुत्रमधीश्वरेण दत्तं साक्ष्यमिदं।
Ⅹईश्वरस्य पुत्रे यो विश्वासिति स निजान्तरे तत् साक्ष्यं धारयति; ईश्वरे यो न विश्वसिति स तम् अनृतवादिनं करोति यत ईश्वरः स्वपुत्रमधि यत् साक्ष्यं दत्तवान् तस्मिन् स न विश्वसिति।
Ⅺतच्च साक्ष्यमिदं यद् ईश्वरो ऽस्मभ्यम् अनन्तजीवनं दत्तवान् तच्च जीवनं तस्य पुत्रे विद्यते।
Ⅻयः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति।
ⅩⅢईश्वरपुत्रस्य नाम्नि युष्मान् प्रत्येतानि मया लिखितानि तस्याभिप्रायो ऽयं यद् यूयम् अनन्तजीवनप्राप्ता इति जानीयात तस्येश्वरपुत्रस्य नाम्नि विश्वसेत च।
ⅩⅣतस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।
ⅩⅤस चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।
ⅩⅥकश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि।
ⅩⅦसर्व्व एवाधर्म्मः पापं किन्तु सर्व्वपांप मृत्युजनकं नहि।
ⅩⅧय ईश्वरात् जातः स पापाचारं न करोति किन्त्वीश्वरात् जातो जनः स्वं रक्षति तस्मात् स पापात्मा तं न स्पृशतीति वयं जानीमः।
ⅩⅨवयम् ईश्वरात् जाताः किन्तु कृत्स्नः संसारः पापात्मनो वशं गतो ऽस्तीति जानीमः।
ⅩⅩअपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।
ⅩⅪहे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्।