अनन्तरं स तत्स्थानात् प्रस्थाय स्वप्रदेशमागतः शिष्याश्च तत्पश्चाद् गताः।
अथ विश्रामवारे सति स भजनगृहे उपदेष्टुमारब्धवान् ततोऽनेके लोकास्तत्कथां श्रुत्वा विस्मित्य जगदुः, अस्य मनुजस्य ईदृशी आश्चर्य्यक्रिया कस्माज् जाता? तथा स्वकराभ्याम् इत्थमद्भुतं कर्म्म कर्त्ताुम् एतस्मै कथं ज्ञानं दत्तम्?
किमयं मरियमः पुत्रस्तज्ञा नो? किमयं याकूब्-योसि-यिहुदा-शिमोनां भ्राता नो? अस्य भगिन्यः किमिहास्माभिः सह नो? इत्थं ते तदर्थे प्रत्यूहं गताः।
तदा यीशुस्तेभ्योऽकथयत् स्वदेशं स्वकुटुम्बान् स्वपरिजनांश्च विना कुत्रापि भविष्यद्वादी असत्कृतो न भवति।
अपरञ्च तेषामप्रत्ययात् स विस्मितः कियतां रोगिणां वपुःषु हस्तम् अर्पयित्वा केवलं तेषामारोग्यकरणाद् अन्यत् किमपि चित्रकार्य्यं कर्त्तां न शक्तः।
अथ स चतुर्दिक्स्थ ग्रामान् भ्रमित्वा उपदिष्टवान्
द्वादशशिष्यान् आहूय अमेध्यभूतान् वशीकर्त्तां शक्तिं दत्त्वा तेषां द्वौ द्वौ जनो प्रेषितवान्।
पुनरित्यादिशद् यूयम् एकैकां यष्टिं विना वस्त्रसंपुटः पूपः कटिबन्धे ताम्रखण्डञ्च एषां किमपि मा ग्रह्लीत,
मार्गयात्रायै पादेषूपानहौ दत्त्वा द्वे उत्तरीये मा परिधद्व्वं।
अपरमप्युक्तं तेन यूयं यस्यां पुर्य्यां यस्य निवेशनं प्रवेक्ष्यथ तां पुरीं यावन्न त्यक्ष्यथ तावत् तन्निवेशने स्थास्यथ।
तत्र यदि केपि युष्माकमातिथ्यं न विदधति युष्माकं कथाश्च न शृण्वन्ति तर्हि तत्स्थानात् प्रस्थानसमये तेषां विरुद्धं साक्ष्यं दातुं स्वपादानास्फाल्य रजः सम्पातयत; अहं युष्मान् यथार्थं वच्मि विचारदिने तन्नगरस्यावस्थातः सिदोमामोरयो र्नगरयोरवस्था सह्यतरा भविष्यति।
अथ ते गत्वा लोकानां मनःपरावर्त्तनीः कथा प्रचारितवन्तः।
ⅩⅢएवमनेकान् भूतांश्च त्याजितवन्तस्तथा तैलेन मर्द्दयित्वा बहून् जनानरोगानकार्षुः।
ⅩⅣइत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते।
ⅩⅤअन्येऽकथयन् अयम् एलियः, केपि कथितवन्त एष भविष्यद्वादी यद्वा भविष्यद्वादिनां सदृश एकोयम्।
ⅩⅥकिन्तु हेरोद् इत्याकर्ण्य भाषितवान् यस्याहं शिरश्छिन्नवान् स एव योहनयं स श्मशानादुदतिष्ठत्।
ⅩⅦपूर्व्वं स्वभ्रातुः फिलिपस्य पत्न्या उद्वाहं कृतवन्तं हेरोदं योहनवादीत् स्वभातृवधू र्न विवाह्या।
ⅩⅧअतः कारणात् हेरोद् लोकं प्रहित्य योहनं धृत्वा बन्धनालये बद्धवान्।
ⅩⅨहेरोदिया तस्मै योहने प्रकुप्य तं हन्तुम् ऐच्छत् किन्तु न शक्ता,
ⅩⅩयस्माद् हेरोद् तं धार्म्मिकं सत्पुरुषञ्च ज्ञात्वा सम्मन्य रक्षितवान्; तत्कथां श्रुत्वा तदनुसारेण बहूनि कर्म्माणि कृतवान् हृष्टमनास्तदुपदेशं श्रुतवांश्च।
ⅩⅪकिन्तु हेरोद् यदा स्वजन्मदिने प्रधानलोकेभ्यः सेनानीभ्यश्च गालील्प्रदेशीयश्रेष्ठलोकेभ्यश्च रात्रौ भोज्यमेकं कृतवान्
ⅩⅫतस्मिन् शुभदिने हेरोदियायाः कन्या समेत्य तेषां समक्षं संनृत्य हेरोदस्तेन सहोपविष्टानाञ्च तोषमजीजनत् तता नृपः कन्यामाह स्म मत्तो यद् याचसे तदेव तुभ्यं दास्ये।
ⅩⅩⅢशपथं कृत्वाकथयत् चेद् राज्यार्द्धमपि याचसे तदपि तुभ्यं दास्ये।
ⅩⅩⅣततः सा बहि र्गत्वा स्वमातरं पप्रच्छ किमहं याचिष्ये? तदा साकथयत् योहनो मज्जकस्य शिरः।
ⅩⅩⅤअथ तूर्णं भूपसमीपम् एत्य याचमानावदत् क्षणेस्मिन् योहनो मज्जकस्य शिरः पात्रे निधाय देहि, एतद् याचेऽहं।
ⅩⅩⅥतस्मात् भूपोऽतिदुःखितः, तथापि स्वशपथस्य सहभोजिनाञ्चानुरोधात् तदनङ्गीकर्त्तुं न शक्तः।
ⅩⅩⅦतत्क्षणं राजा घातकं प्रेष्य तस्य शिर आनेतुमादिष्टवान्।
ⅩⅩⅧततः स कारागारं गत्वा तच्छिरश्छित्वा पात्रे निधायानीय तस्यै कन्यायै दत्तवान् कन्या च स्वमात्रे ददौ।
ⅩⅩⅨअननतरं योहनः शिष्यास्तद्वार्त्तां प्राप्यागत्य तस्य कुणपं श्मशानेऽस्थापयन्।
ⅩⅩⅩअथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः।
ⅩⅩⅪस तानुवाच यूयं विजनस्थानं गत्वा विश्राम्यत यतस्तत्सन्निधौ बहुलोकानां समागमात् ते भोक्तुं नावकाशं प्राप्ताः।
ⅩⅩⅫततस्ते नावा विजनस्थानं गुप्तं गग्मुः।
ⅩⅩⅩⅢततो लोकनिवहस्तेषां स्थानान्तरयानं ददर्श, अनेके तं परिचित्य नानापुरेभ्यः पदैर्व्रजित्वा जवेन तैषामग्रे यीशोः समीप उपतस्थुः।
ⅩⅩⅩⅣतदा यीशु र्नावो बहिर्गत्य लोकारण्यानीं दृष्ट्वा तेषु करुणां कृतवान् यतस्तेऽरक्षकमेषा इवासन् तदा स तान नानाप्रसङ्गान् उपदिष्टवान्।
ⅩⅩⅩⅤअथ दिवान्ते सति शिष्या एत्य यीशुमूचिरे, इदं विजनस्थानं दिनञ्चावसन्नं।
ⅩⅩⅩⅥलोकानां किमपि खाद्यं नास्ति, अतश्चतुर्दिक्षु ग्रामान् गन्तुं भोज्यद्रव्याणि क्रेतुञ्च भवान् तान् विसृजतु।
ⅩⅩⅩⅦतदा स तानुवाच यूयमेव तान् भोजयत; ततस्ते जगदु र्वयं गत्वा द्विशतसंख्यकै र्मुद्रापादैः पूपान् क्रीत्वा किं तान् भोजयिष्यामः?
ⅩⅩⅩⅧतदा स तान् पृष्ठवान् युष्माकं सन्निधौ कति पूपा आसते? गत्वा पश्यत; ततस्ते दृष्ट्वा तमवदन् पञ्च पूपा द्वौ मत्स्यौ च सन्ति।
ⅩⅩⅩⅨतदा स लोकान् शस्पोपरि पंक्तिभिरुपवेशयितुम् आदिष्टवान्,
ⅩⅬततस्ते शतं शतं जनाः पञ्चाशत् पञ्चाशज्जनाश्च पंक्तिभि र्भुवि समुपविविशुः।
ⅩⅬⅠअथ स तान् पञ्चपूपान् मत्स्यद्वयञ्च धृत्वा स्वर्गं पश्यन् ईश्वरगुणान् अन्वकीर्त्तयत् तान् पूपान् भंक्त्वा लोकेभ्यः परिवेषयितुं शिष्येभ्यो दत्तवान् द्वा मत्स्यौ च विभज्य सर्व्वेभ्यो दत्तवान्।
ⅩⅬⅡततः सर्व्वे भुक्त्वातृप्यन्।
ⅩⅬⅢअनन्तरं शिष्या अवशिष्टैः पूपै र्मत्स्यैश्च पूर्णान् द्वदश डल्लकान् जगृहुः।
ⅩⅬⅣते भोक्तारः प्रायः पञ्च सहस्राणि पुरुषा आसन्।
ⅩⅬⅤअथ स लोकान् विसृजन्नेव नावमारोढुं स्वस्मादग्रे पारे बैत्सैदापुरं यातुञ्च श्ष्यिान् वाढमादिष्टवान्।
ⅩⅬⅥतदा स सर्व्वान् विसृज्य प्रार्थयितुं पर्व्वतं गतः।
ⅩⅬⅦततः सन्ध्यायां सत्यां नौः सिन्धुमध्य उपस्थिता किन्तु स एकाकी स्थले स्थितः।
ⅩⅬⅧअथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः।
ⅩⅬⅨकिन्तु शिष्याः सिन्धूपरि तं व्रजन्तं दृष्ट्वा भूतमनुमाय रुरुवुः,
यतः सर्व्वे तं दृष्ट्वा व्याकुलिताः। अतएव यीशुस्तत्क्षणं तैः सहालप्य कथितवान्, सुस्थिरा भूत, अयमहं मा भैष्ट।
ⅬⅠअथ नौकामारुह्य तस्मिन् तेषां सन्निधिं गते वातो निवृत्तः; तस्मात्ते मनःसु विस्मिता आश्चर्य्यं मेनिरे।
ⅬⅡयतस्ते मनसां काठिन्यात् तत् पूपीयम् आश्चर्य्यं कर्म्म न विविक्तवन्तः।
ⅬⅢअथ ते पारं गत्वा गिनेषरत्प्रदेशमेत्य तट उपस्थिताः।
ⅬⅣतेषु नौकातो बहिर्गतेषु तत्प्रदेशीया लोकास्तं परिचित्य
ⅬⅤचतुर्दिक्षु धावन्तो यत्र यत्र रोगिणो नरा आसन् तान् सर्व्वान खट्वोपरि निधाय यत्र कुत्रचित् तद्वार्त्तां प्रापुः तत् स्थानम् आनेतुम् आरेभिरे।
ⅬⅥतथा यत्र यत्र ग्रामे यत्र यत्र पुरे यत्र यत्र पल्ल्याञ्च तेन प्रवेशः कृतस्तद्वर्त्ममध्ये लोकाः पीडितान् स्थापयित्वा तस्य चेलग्रन्थिमात्रं स्प्रष्टुम् तेषामर्थे तदनुज्ञां प्रार्थयन्तः यावन्तो लोकाः पस्पृशुस्तावन्त एव गदान्मुक्ताः।