अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।
तदनन्तरं फलकाले कृषीवलेभ्यो द्राक्षाक्षेत्रफलानि प्राप्तुं तेषां सविधे भृत्यम् एकं प्राहिणोत्।
किन्तु कृषीवलास्तं धृत्वा प्रहृत्य रिक्तहस्तं विससृजुः।
ततः स पुनरन्यमेकं भृत्यं प्रषयामास, किन्तु ते कृषीवलाः पाषाणाघातैस्तस्य शिरो भङ्क्त्वा सापमानं तं व्यसर्जन्।
ततः परं सोपरं दासं प्राहिणोत् तदा ते तं जघ्नुः, एवम् अनेकेषां कस्यचित् प्रहारः कस्यचिद् वधश्च तैः कृतः।
ततः परं मया स्वपुत्रे प्रहिते ते तमवश्यं सम्मंस्यन्ते, इत्युक्त्वावशेषे तेषां सन्निधौ निजप्रियम् अद्वितीयं पुत्रं प्रेषयामास।
किन्तु कृषीवलाः परस्परं जगदुः, एष उत्तराधिकारी, आगच्छत वयमेनं हन्मस्तथा कृते ऽधिकारोयम् अस्माकं भविष्यति।
ततस्तं धृत्वा हत्वा द्राक्षाक्षेत्राद् बहिः प्राक्षिपन्।
अनेनासौ द्राक्षाक्षेत्रपतिः किं करिष्यति? स एत्य तान् कृषीवलान् संहत्य तत्क्षेत्रम् अन्येषु कृषीवलेषु समर्पयिष्यति।
अपरञ्च, "स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्राधानप्रस्तरः कोणे स एव संभविष्यति।
एतत् कर्म्म परेशस्यांद्भुतं नो दृष्टितो भवेत्॥" इमां शास्त्रीयां लिपिं यूयं किं नापाठिष्ट?
तदानीं स तानुद्दिश्य तां दृष्टान्तकथां कथितवान्, त इत्थं बुद्व्वा तं धर्त्तामुद्यताः, किन्तु लोकेभ्यो बिभ्युः, तदनन्तरं ते तं विहाय वव्रजुः।
ⅩⅢअपरञ्च ते तस्य वाक्यदोषं धर्त्तां कतिपयान् फिरूशिनो हेरोदीयांश्च लोकान् तदन्तिकं प्रेषयामासुः।
ⅩⅣत आगत्य तमवदन्, हे गुरो भवान् तथ्यभाषी कस्याप्यनुरोधं न मन्यते, पक्षपातञ्च न करोति, यथार्थत ईश्वरीयं मार्गं दर्शयति वयमेतत् प्रजानीमः, कैसराय करो देयो न वां? वयं दास्यामो न वा?
ⅩⅤकिन्तु स तेषां कपटं ज्ञात्वा जगाद, कुतो मां परीक्षध्वे? एकं मुद्रापादं समानीय मां दर्शयत।
ⅩⅥतदा तैरेकस्मिन् मुद्रापादे समानीते स तान् पप्रच्छ, अत्र लिखितं नाम मूर्त्ति र्वा कस्य? ते प्रत्यूचुः, कैसरस्य।
ⅩⅦतदा यीशुरवदत् तर्हि कैसरस्य द्रव्याणि कैसराय दत्त, ईश्वरस्य द्रव्याणि तु ईश्वराय दत्त; ततस्ते विस्मयं मेनिरे।
ⅩⅧअथ मृतानामुत्थानं ये न मन्यन्ते ते सिदूकिनो यीशोः समीपमागत्य तं पप्रच्छुः;
ⅩⅨहे गुरो कश्चिज्जनो यदि निःसन्ततिः सन् भार्य्यायां सत्यां म्रियते तर्हि तस्य भ्राता तस्य भार्य्यां गृहीत्वा भ्रातु र्वंशोत्पत्तिं करिष्यति, व्यवस्थामिमां मूसा अस्मान् प्रति व्यलिखत्।
ⅩⅩकिन्तु केचित् सप्त भ्रातर आसन्, ततस्तेषां ज्येष्ठभ्राता विवह्य निःसन्ततिः सन् अम्रियत।
ⅩⅪततो द्वितीयो भ्राता तां स्त्रियमगृहणत् किन्तु सोपि निःसन्ततिः सन् अम्रियत; अथ तृतीयोपि भ्राता तादृशोभवत्।
ⅩⅫइत्थं सप्तैव भ्रातरस्तां स्त्रियं गृहीत्वा निःसन्तानाः सन्तोऽम्रियन्त, सर्व्वशेषे सापि स्त्री म्रियते स्म।
ⅩⅩⅢअथ मृतानामुत्थानकाले यदा त उत्थास्यन्ति तदा तेषां कस्य भार्य्या सा भविष्यति? यतस्ते सप्तैव तां व्यवहन्।
ⅩⅩⅣततो यीशुः प्रत्युवाच शास्त्रम् ईश्वरशक्तिञ्च यूयमज्ञात्वा किमभ्राम्यत न?
ⅩⅩⅤमृतलोकानामुत्थानं सति ते न विवहन्ति वाग्दत्ता अपि न भवन्ति, किन्तु स्वर्गीयदूतानां सदृशा भवन्ति।
ⅩⅩⅥपुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?
ⅩⅩⅦईश्वरो जीवतां प्रभुः किन्तु मृतानां प्रभु र्न भवति, तस्माद्धेतो र्यूयं महाभ्रमेण तिष्ठथ।
ⅩⅩⅧएतर्हि एकोध्यापक एत्य तेषामित्थं विचारं शुश्राव; यीशुस्तेषां वाक्यस्य सदुत्तरं दत्तवान् इति बुद्व्वा तं पृष्टवान् सर्व्वासाम् आज्ञानां का श्रेष्ठा? ततो यीशुः प्रत्युवाच,
ⅩⅩⅨ"हे इस्रायेल्लोका अवधत्त, अस्माकं प्रभुः परमेश्वर एक एव,
ⅩⅩⅩयूयं सर्व्वन्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च तस्मिन् प्रभौ परमेश्वरे प्रीयध्वं," इत्याज्ञा श्रेष्ठा।
ⅩⅩⅪतथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति।
ⅩⅩⅫतदा सोध्यापकस्तमवदत्, हे गुरो सत्यं भवान् यथार्थं प्रोक्तवान् यत एकस्माद् ईश्वराद् अन्यो द्वितीय ईश्वरो नास्ति;
ⅩⅩⅩⅢअपरं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैः सर्व्वशक्तिभिश्च ईश्वरे प्रेमकरणं तथा स्वमीपवासिनि स्ववत् प्रेमकरणञ्च सर्व्वेभ्यो होमबलिदानादिभ्यः श्रष्ठं भवति।
ⅩⅩⅩⅣततो यीशुः सुबुद्धेरिव तस्येदम् उत्तरं श्रुत्वा तं भाषितवान् त्वमीश्वरस्य राज्यान्न दूरोसि।इतः परं तेन सह कस्यापि वाक्यस्य विचारं कर्त्तां कस्यापि प्रगल्भता न जाता।
ⅩⅩⅩⅤअनन्तरं मध्येमन्दिरम् उपदिशन् यीशुरिमं प्रश्नं चकार, अध्यापका अभिषिक्तं (तारकं) कुतो दायूदः सन्तानं वदन्ति?
ⅩⅩⅩⅥस्वयं दायूद् पवित्रस्यात्मन आवेशेनेदं कथयामास। यथा। "मम प्रभुमिदं वाक्यवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व् उपाविश।"
ⅩⅩⅩⅦयदि दायूद् तं प्रभूं वदति तर्हि कथं स तस्य सन्तानो भवितुमर्हति? इतरे लोकास्तत्कथां श्रुत्वाननन्दुः।
ⅩⅩⅩⅧतदानीं स तानुपदिश्य कथितवान् ये नरा दीर्घपरिधेयानि हट्टे विपनौ च
ⅩⅩⅩⅨलोककृतनमस्कारान् भजनगृहे प्रधानासनानि भोजनकाले प्रधानस्थानानि च काङ्क्षन्ते;
ⅩⅬविधवानां सर्व्वस्वं ग्रसित्वा छलाद् दीर्घकालं प्रार्थयन्ते तेभ्य उपाध्यायेभ्यः सावधाना भवत; तेऽधिकतरान् दण्डान् प्राप्स्यन्ति।
ⅩⅬⅠतदनन्तरं लोका भाण्डागारे मुद्रा यथा निक्षिपन्ति भाण्डागारस्य सम्मुखे समुपविश्य यीशुस्तदवलुलोक; तदानीं बहवो धनिनस्तस्य मध्ये बहूनि धनानि निरक्षिपन्।
ⅩⅬⅡपश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्।
ⅩⅬⅢतदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म।
ⅩⅬⅣयतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।