अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, ईश्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति।
अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।
ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति।
अपरञ्च एलियो मूसाश्च तेभ्यो दर्शनं दत्त्वा यीशुना सह कथनं कर्त्तुमारेभाते।
तदा पितरो यीशुमवादीत् हे गुरोऽस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम।
किन्तु स यदुक्तवान् तत् स्वयं न बुबुधे ततः सर्व्वे बिभयाञ्चक्रुः।
एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।
अथ हठात्ते चतुर्दिशो दृष्ट्वा यीशुं विना स्वैः सहितं कमपि न ददृशुः।
ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।
तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपायाञ्चक्रिरे।
अथ ते यीशुं पप्रच्छुः प्रथमत एलियेनागन्तव्यम् इति वाक्यं कुत उपाध्याया आहुः?
तदा स प्रत्युवाच , एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।
ⅩⅢकिन्त्वहं युष्मान् वदामि , एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म।
ⅩⅣअनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्;
ⅩⅤकिन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः।
ⅩⅥतदा यीशुरध्यापकानप्राक्षीद् एतैः सह यूयं किं विवदध्वे?
ⅩⅦततो लोकानां कश्चिदेकः प्रत्यवादीत् हे गुरो मम सूनुं मूकं भूतधृतञ्च भवदासन्नम् आनयं।
ⅩⅧयदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः।
ⅩⅨतदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।
ⅩⅩततस्तत्सन्निधिं स आनीयत किन्तु तं दृष्ट्वैव भूतो बालकं धृतवान्; स च भूमौ पतित्वा फेणायमानो लुलोठ।
ⅩⅪतदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्।
ⅩⅫभूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।
ⅩⅩⅢतदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।
ⅩⅩⅣततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।
ⅩⅩⅤअथ यीशु र्लोकसङ्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।
ⅩⅩⅥतदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतइत्यनेके कथयामासुः।
ⅩⅩⅦकिन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ।
ⅩⅩⅧअथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?
ⅩⅩⅨस उवाच, प्रार्थनोपवासौ विना केनाप्यन्येन कर्म्मणा भूतमीदृशं त्याजयितुं न शक्यं।
ⅩⅩⅩअनन्तरं स तत्स्थानादित्वा गालील्मध्येन ययौ, किन्तु तत् कोपि जानीयादिति स नैच्छत्।
ⅩⅩⅪअपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।
ⅩⅩⅫकिन्तु तत्कथां ते नाबुध्यन्त प्रष्टुञ्च बिभ्यः।
ⅩⅩⅩⅢअथ यीशुः कफर्नाहूम्पुरमागत्य मध्येगृहञ्चेत्य तानपृच्छद् वर्त्ममध्ये यूयमन्योन्यं किं विवदध्वे स्म?
ⅩⅩⅩⅣकिन्तु ते निरुत्तरास्तस्थु र्यस्मात्तेषां को मुख्य इति वर्त्मानि तेऽन्योन्यं व्यवदन्त।
ⅩⅩⅩⅤततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु।
ⅩⅩⅩⅥतदा स बालकमेकं गृहीत्वा मध्ये समुपावेशयत् ततस्तं क्रोडे कृत्वा तानवादात्
ⅩⅩⅩⅦयः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।
ⅩⅩⅩⅧअथ योहन् तमब्रवीत् हे गुरो, अस्माकमननुगामिनम् एकं त्वान्नाम्ना भूतान् त्याजयन्तं वयं दृष्टवन्तः, अस्माकमपश्चाद्गामित्वाच्च तं न्यषेधाम।
ⅩⅩⅩⅨकिन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति।
ⅩⅬतथा यः कश्चिद् युष्माकं विपक्षतां न करोति स युष्माकमेव सपक्षः।
ⅩⅬⅠयः कश्चिद् युष्मान् ख्रीष्टशिष्यान् ज्ञात्वा मन्नाम्ना कंसैकेन पानीयं पातुं ददाति, युष्मानहं यथार्थं वच्मि, स फलेन वञ्चितो न भविष्यति।
ⅩⅬⅡकिन्तु यदि कश्चिन् मयि विश्वासिनामेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नं जनयति, तर्हि तस्यैतत्कर्म्म करणात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजल मज्जनं भद्रं।
ⅩⅬⅢअतः स्वकरो यदि त्वां बाधते तर्हि तं छिन्धि;
ⅩⅬⅣयस्मात् यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् अनिर्व्वाणानलनरके करद्वयवस्तव गमनात् करहीनस्य स्वर्गप्रवेशस्तव क्षेमं।
ⅩⅬⅤयदि तव पादो विघ्नं जनयति तर्हि तं छिन्धि,
ⅩⅬⅥयतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् ऽनिर्व्वाणवह्नौ नरके द्विपादवतस्तव निक्षेपात् पादहीनस्य स्वर्गप्रवेशस्तव क्षेमं।
ⅩⅬⅦस्वनेत्रं यदि त्वां बाधते तर्हि तदप्युत्पाटय, यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति,
ⅩⅬⅧतस्मिन ऽनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं।
ⅩⅬⅨयथा सर्व्वो बलि र्लवणाक्तः क्रियते तथा सर्व्वो जनो वह्निरूपेण लवणाक्तः कारिष्यते।
लवणं भद्रं किन्तु यदि लवणे स्वादुता न तिष्ठति, तर्हि कथम् आस्वाद्युक्तं करिष्यथ? यूयं लवणयुक्ता भवत परस्परं प्रेम कुरुत।