तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये ऽवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तुञ्च मृगयाञ्चक्रिरे;
किन्तु लोकानां कलहभयादूचिरे, नचोत्सवकाल उचितमेतदिति।
अनन्तरं बैथनियापुुरे शिमोनकुष्ठिनो गृहे योशौ भोत्कुमुपविष्टे सति काचिद् योषित् पाण्डरपाषाणस्य सम्पुटकेन महार्घ्योत्तमतैलम् आनीय सम्पुटकं भंक्त्वा तस्योत्तमाङ्गे तैलधारां पातयाञ्चक्रे।
तस्मात् केचित् स्वान्ते कुप्यन्तः कथितवंन्तः कुतोयं तैलापव्ययः?
यद्येतत् तैल व्यक्रेष्यत तर्हि मुद्रापादशतत्रयादप्यधिकं तस्य प्राप्तमूल्यं दरिद्रलोकेभ्यो दातुमशक्ष्यत, कथामेतां कथयित्वा तया योषिता साकं वाचायुह्यन्।
किन्तु यीशुरुवाच, कुत एतस्यै कृच्छ्रं ददासि? मह्यमियं कर्म्मोत्तमं कृतवती।
दरिद्राः सर्व्वदा युष्माभिः सह तिष्ठन्ति, तस्माद् यूयं यदेच्छथ तदैव तानुपकर्त्तां शक्नुथ, किन्त्वहं युभाभिः सह निरन्तरं न तिष्ठामि।
अस्या यथासाध्यं तथैवाकरोदियं, श्मशानयापनात् पूर्व्वं समेत्य मद्वपुषि तैलम् अमर्द्दयत्।
अहं युष्मभ्यं यथार्थं कथयामि, जगतां मध्ये यत्र यत्र सुसंवादोयं प्रचारयिष्यते तत्र तत्र योषित एतस्याः स्मरणार्थं तत्कृतकर्म्मैतत् प्रचारयिष्यते।
ततः परं द्वादशानां शिष्याणामेक ईष्करियोतीययिहूदाख्यो यीशुं परकरेषु समर्पयितुं प्रधानयाजकानां समीपमियाय।
ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास।
अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?
ⅩⅢतदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं;
ⅩⅣस यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति?
ⅩⅤततः स परिष्कृतां सुसज्जितां बृहतीचञ्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं।
ⅩⅥततः शिष्यौ प्रस्थाय पुरं प्रविश्य स यथोक्तवान् तथैव प्राप्य निस्तारोत्सवस्य भोज्यद्रव्याणि समासादयेताम्।
ⅩⅦअनन्तरं यीशुः सायंकाले द्वादशभिः शिष्यैः सार्द्धं जगाम;
ⅩⅧसर्व्वेषु भोजनाय प्रोपविष्टेषु स तानुदितवान् युष्मानहं यथार्थं व्याहरामि, अत्र युष्माकमेको जनो यो मया सह भुंक्ते मां परकेरेषु समर्पयिष्यते।
ⅩⅨतदानीं ते दुःखिताः सन्त एकैकशस्तं प्रष्टुमारब्धवन्तः स किमहं? पश्चाद् अन्य एकोभिदधे स किमहं?
ⅩⅩततः स प्रत्यवदद् एतेषां द्वादशानां यो जनो मया समं भोजनापात्रे पाणिं मज्जयिष्यति स एव।
ⅩⅪमनुजतनयमधि यादृशं लिखितमास्ते तदनुरूपा गतिस्तस्य भविष्यति, किन्तु यो जनो मानवसुतं समर्पयिष्यते हन्त तस्य जन्माभावे सति भद्रमभविष्यत्।
ⅩⅫअपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भङ्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं।
ⅩⅩⅢअनन्तरं स कंसं गृहीत्वेश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो ददौ, ततस्ते सर्व्वे पपुः।
ⅩⅩⅣअपरं स तानवादीद् बहूनां निमित्तं पातितं मम नवीननियमरूपं शोणितमेतत्।
ⅩⅩⅤयुष्मानहं यथार्थं वदामि, ईश्वरस्य राज्ये यावत् सद्योजातं द्राक्षारसं न पास्यामि,तावदहं द्राक्षाफलरसं पुन र्न पास्यामि।
ⅩⅩⅥतदनन्तरं ते गीतमेकं संगीय बहि र्जैतुनं शिखरिणं ययुः
ⅩⅩⅦअथ यीशुस्तानुवाच निशायामस्यां मयि युष्माकं सर्व्वेषां प्रत्यूहो भविष्यति यतो लिखितमास्ते यथा, मेषाणां रक्षकञ्चाहं प्रहरिष्यामि वै ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति।
ⅩⅩⅧकन्तु मदुत्थाने जाते युष्माकमग्रेऽहं गालीलं व्रजिष्यामि।
ⅩⅩⅨतदा पितरः प्रतिबभाषे, यद्यपि सर्व्वेषां प्रत्यूहो भवति तथापि मम नैव भविष्यति।
ⅩⅩⅩततो यीशुरुक्तावान् अहं तुभ्यं तथ्यं कथयामि, क्षणादायामद्य कुक्कुटस्य द्वितीयवाररवणात् पूर्व्वं त्वं वारत्रयं मामपह्नोष्यसे।
ⅩⅩⅪकिन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वेऽपीतरे तथैव बभाषिरे।
ⅩⅩⅫअपरञ्च तेषु गेत्शिमानीनामकं स्थान गतेषु स शिष्यान् जगाद, यावदहं प्रार्थये तावदत्र स्थाने यूयं समुपविशत।
ⅩⅩⅩⅢअथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,
ⅩⅩⅩⅣनिधनकालवत् प्राणो मेऽतीव दःखमेति, यूयं जाग्रतोत्र स्थाने तिष्ठत।
ⅩⅩⅩⅤततः स किञ्चिद्दूरं गत्वा भूमावधोमुखः पतित्वा प्रार्थितवानेतत्, यदि भवितुं शक्यं तर्हि दुःखसमयोयं मत्तो दूरीभवतु।
ⅩⅩⅩⅥअपरमुदितवान् हे पित र्हे पितः सर्व्वें त्वया साध्यं, ततो हेतोरिमं कंसं मत्तो दूरीकुरु, किन्तु तन् ममेच्छातो न तवेच्छातो भवतु।
ⅩⅩⅩⅦततः परं स एत्य तान् निद्रितान् निरीक्ष्य पितरं प्रोवाच, शिमोन् त्वं किं निद्रासि? घटिकामेकाम् अपि जागरितुं न शक्नोषि?
ⅩⅩⅩⅧपरीक्षायां यथा न पतथ तदर्थं सचेतनाः सन्तः प्रार्थयध्वं; मन उद्युक्तमिति सत्यं किन्तु वपुरशक्तिकं।
ⅩⅩⅩⅨअथ स पुनर्व्रजित्वा पूर्व्ववत् प्रार्थयाञ्चक्रे।
ⅩⅬपरावृत्यागत्य पुनरपि तान् निद्रितान् ददर्श तदा तेषां लोचनानि निद्रया पूर्णानि, तस्मात्तस्मै का कथा कथयितव्या त एतद् बोद्धुं न शेकुः।
ⅩⅬⅠततःपरं तृतीयवारं आगत्य तेभ्यो ऽकथयद् इदानीमपि शयित्वा विश्राम्यथ? यथेष्टं जातं, समयश्चोपस्थितः पश्यत मानवतनयः पापिलोकानां पाणिषु समर्प्यते।
ⅩⅬⅡउत्तिष्ठत, वयं व्रजामो यो जनो मां परपाणिषु समर्पयिष्यते पश्यत स समीपमायातः।
ⅩⅬⅢइमां कथां कथयति स, एतर्हिद्वादशानामेको यिहूदा नामा शिष्यः प्रधानयाजकानाम् उपाध्यायानां प्राचीनलोकानाञ्च सन्निधेः खङ्गलगुडधारिणो बहुलोकान् गृहीत्वा तस्य समीप उपस्थितवान्।
ⅩⅬⅣअपरञ्चासौ परपाणिषु समर्पयिता पूर्व्वमिति सङ्केतं कृतवान् यमहं चुम्बिष्यामि स एवासौ तमेव धृत्वा सावधानं नयत।
ⅩⅬⅤअतो हेतोः स आगत्यैव योशोः सविधं गत्वा हे गुरो हे गुरो, इत्युक्त्वा तं चुचुम्ब।
ⅩⅬⅥतदा ते तदुपरि पाणीनर्पयित्वा तं दध्नुः।
ⅩⅬⅦततस्तस्य पार्श्वस्थानां लोकानामेकः खङ्गं निष्कोषयन् महायाजकस्य दासमेकं प्रहृत्य तस्य कर्णं चिच्छेद।
ⅩⅬⅧपश्चाद् यीशुस्तान् व्याजहार खङ्गान् लगुडांश्च गृहीत्वा मां किं चौरं धर्त्तां समायाताः?
ⅩⅬⅨमध्येमन्दिरं समुपदिशन् प्रत्यहं युष्माभिः सह स्थितवानतहं, तस्मिन् काले यूयं मां नादीधरत, किन्त्वनेन शास्त्रीयं वचनं सेधनीयं।
तदा सर्व्वे शिष्यास्तं परित्यज्य पलायाञ्चक्रिरे।
ⅬⅠअथैको युवा मानवो नग्नकाये वस्त्रमेकं निधाय तस्य पश्चाद् व्रजन् युवलोकै र्धृतो
ⅬⅡवस्त्रं विहाय नग्नः पलायाञ्चक्रे।
ⅬⅢअपरञ्च यस्मिन् स्थाने प्रधानयाजका उपाध्यायाः प्राचीनलोकाश्च महायाजकेन सह सदसि स्थितास्तस्मिन् स्थाने महायाजकस्य समीपं यीशुं निन्युः।
ⅬⅣपितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य किङ्करैः सहोपविश्य वह्नितापं जग्राह।
ⅬⅤतदानीं प्रधानयाजका मन्त्रिणश्च यीशुं घातयितुं तत्प्रातिकूल्येन साक्षिणो मृगयाञ्चक्रिरे, किन्तु न प्राप्ताः।
ⅬⅥअनेकैस्तद्विरुद्धं मृषासाक्ष्ये दत्तेपि तेषां वाक्यानि न समगच्छन्त।
ⅬⅦसर्व्वशेषे कियन्त उत्थाय तस्य प्रातिकूल्येन मृषासाक्ष्यं दत्त्वा कथयामासुः,
ⅬⅧइदं करकृतमन्दिरं विनाश्य दिनत्रयमध्ये पुनरपरम् अकरकृतं मन्दिरं निर्म्मास्यामि, इति वाक्यम् अस्य मुखात् श्रुतमस्माभिरिति।
ⅬⅨकिन्तु तत्रापि तेषां साक्ष्यकथा न सङ्गाताः।
ⅬⅩअथ महायाजको मध्येसभम् उत्थाय यीशुं व्याजहार, एते जनास्त्वयि यत् साक्ष्यमदुः त्वमेतस्य किमप्युत्तरं किं न दास्यसि?
ⅬⅪकिन्तु स किमप्युत्तरं न दत्वा मौनीभूय तस्यौ; ततो महायाजकः पुनरपि तं पृष्टावान् त्वं सच्चिदानन्दस्य तनयो ऽभिषिक्तस्त्रता?
ⅬⅫतदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ।
ⅬⅩⅢतदा महायाजकः स्वं वमनं छित्वा व्यावहरत्
ⅬⅩⅣकिमस्माकं साक्षिभिः प्रयोजनम्? ईश्वरनिन्दावाक्यं युष्माभिरश्रावि किं विचारयथ? तदानीं सर्व्वे जगदुरयं निधनदण्डमर्हति।
ⅬⅩⅤततः कश्चित् कश्चित् तद्वपुषि निष्ठीवं निचिक्षेप तथा तन्मुखमाच्छाद्य चपेटेन हत्वा गदितवान् गणयित्वा वद, अनुचराश्च चपेटैस्तमाजघ्नुः
ⅬⅩⅥततः परं पितरेऽट्टालिकाधःकोष्ठे तिष्ठति महायाजकस्यैका दासी समेत्य
ⅬⅩⅦतं विह्नितापं गृह्लन्तं विलोक्य तं सुनिरीक्ष्य बभाषे त्वमपि नासरतीययीशोः सङ्गिनाम् एको जन आसीः।
ⅬⅩⅧकिन्तु सोपह्नुत्य जगाद तमहं न वद्मि त्वं यत् कथयमि तदप्यहं न बुद्ध्ये। तदानीं पितरे चत्वरं गतवति कुेक्कुटो रुराव।
ⅬⅩⅨअथान्या दासी पितरं दृष्ट्वा समीपस्थान् जनान् जगाद अयं तेषामेको जनः।
ⅬⅩⅩततः स द्वितीयवारम् अपह्नुतवान् पश्चात् तत्रस्था लोकाः पितरं प्रोचुस्त्वमवश्यं तेषामेको जनः यतस्त्वं गालीलीयो नर इति तवोच्चारणं प्रकाशयति।
ⅬⅩⅪतदा स शपथाभिशापौ कृत्वा प्रोवाच यूयं कथां कथयथ तं नरं न जानेऽहं।
ⅬⅩⅫतदानीं द्वितीयवारं कुक्कुटो ऽरावीत्। कुक्कुटस्य द्वितीयरवात् पूर्व्वं त्वं मां वारत्रयम् अपह्नोष्यसि, इति यद्वाक्यं यीशुना समुदितं तत् तदा संस्मृत्य पितरो रोदितुम् आरभत।